भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 199

199.001

सर्वं लभेद्धरिं प्रार्च्य मासोपवासकव्रती ।अप्_198.016अब्।
:ए इत्य् आग्नेये महापुराणे मासव्रतानि नाम
अष्टनवत्यधिकशततमो ऽध्यायः ॥
:न्
1 मत्स्यादि त्यक्त्वेति ख.. , घ.. , छ.. च । मत्स्यत्यागी तु इति ङ.
2 विष्णुपुरं व्रजेदिति ख.. , ट.. च
:प् 234
% छप्तेर् {199}
:श् अथैकोनशताधिकशततमो ऽध्यायः
नानाव्रतानि
अग्निर् उवाच
ऋतुव्रतान्त्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते ।अप्_199.001अब्।
इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्य् ऋतून्

199.002

घृतधेनुप्रदश्चान्ते ब्राह्मणो ऽग्निव्रती भवेत् ।अप्_199.002अब्।
कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः

199.003

तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती(1) ।अप्_199.003अब्।
पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः

199.004

एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् ।अप्_199.004अब्।
हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती

199.005

पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् ।अप्_199.005अब्।
निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः

199.006

वर्षव्रतानि चोक्तानि(2) सङ्क्रान्तिव्रतकं वदे ।अप्_199.006अब्।
सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः

199.007

अमावास्यां तु सङ्क्रान्तौ शिवार्कयजनात्तथा ।अप्_199.007अब्।
उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे

199.008

:न्
1 सुधीः सारस्वतव्रती इति ख.. , ग.. , घ.. , छ.. , ट.. च
2 सर्वव्रतानि चोक्तानीति ख.. , छ.. , ज.. च
:प् 235
द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते ।अप्_199.008अब्।
घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु

199.009

स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च ।अप्_199.009अब्।
गौरीं महेश्वरं चापि यजेत् सौभाग्यमाप्नुयात्

199.010

उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् ।अप्_199.010अब्।
मूलव्रतकरी स्त्री च उमेशव्रतकारिणी

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc