भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 198

198.001

:ए इत्य् आग्नेये महपुराणे दिवसव्रतानि नाम सप्तनवत्यधिकशततमो
ऽध्यायः ॥
:न्
1 त्रिरात्रशतकव्रतो इति ख.. , घ.. , ञ.. च । त्रिरात्रशतककृद् व्रतो इति
ङ..
2 कार्त्तिकस्य सिते प्रार्च्य इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च
3 भास्करो ऽन्नद इति ख.. , ग.. , घ.. , ज.. , ञ.. च
:प् 232
% छप्तेर् {198}
:श् अथाष्टनवत्यधिकशततमो ऽध्यायः
मासव्रतानि
अग्निर् उवाच
मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायकं ।अप्_198.001अब्।
आषाढादिचतुर्मासमभ्यङ्गं वर्जयेत् सुधीः

198.002

वैशाखे पुष्पलवणन्त्यक्त्वा गोदो नृपो भवेत् ।अप्_198.002अब्।
गोदो मासोपवासी च(1) भीमव्रतकरो हरिः(2)

198.003

आषाढादिचतुर्मासं प्रातःस्नायी च विष्णुगः ।अप्_198.003अब्।
माघे मास्यथ चैत्रे वा गुडधेनुप्रदो भवेत्

198.004

गुडव्रतस्तृतीयायां गौरीशः स्यान्महाव्रती ।अप्_198.004अब्।
मार्गशीर्षादिमासेषु नक्तकृद्विष्णुलोकभाक्

198.005

एकभक्तव्रती तद्वद् द्वादशीव्रतकं पृठक्(3) ।अप्_198.005अब्।
फलव्रती चतुर्मासं फलं त्यक्त्वा प्रदापयेत्

198.006

श्रावणादिचतुर्मासं व्रतैः सर्वं लभेद्व्रती ।अप्_198.006अब्।
आषाढस्य सिते पक्षे एकादश्यामुपोषितः

198.007

चातुर्मास्यव्रतानान्तु कुर्वीत परिकल्पनं ।अप्_198.007अब्।
आषाढ्याञ्चाथ सङ्क्रान्तौ कर्कटस्य(4) हरिं यजेत्

198.008

इदं व्रतं मया देव गृहीतं पुरतस्तव ।अप्_198.008अब्।
:न्
1 मासे यवाशो चेति ख..
2 भीमव्रतपरो हरिरिति ङ..
3 द्वादशीव्रतकं परमिति ङ..
4 आषाढगं वृषसङ्क्रान्त्यां कर्कटे चेति झ..
:प् 233
निर्विघ्नां सिद्धिमायातु प्रसन्ने त्वयि केशव

198.009

गृहीते ऽस्मिन् व्रते देव यद्यपूर्णे म्रिये ह्य् अहं ।अप्_198.009अब्।
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन

198.010

मांसादि त्यक्त्वा(1) विप्रः स्यात्तैलत्यागी हरिं यजेत् ।अप्_198.010अब्।
एकान्तरोपवासी च त्रिरात्रं विष्णुलोकभाक्

198.011

चान्द्रायणी विष्णुलोकी मौनी स्यान् मुक्तिभाजनं ।अप्_198.011अब्।
प्राजापत्यव्रती स्वर्गी शक्तुयावकभक्षकः

198.012

गुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभ्क्तथा ।अप्_198.012अब्।
शाकमूलफलाहारी नरो विष्णुपुरीं व्रजेत्(2)

198.013

मांसवर्जी यवाहारो रसवर्जी हरिं व्रजेत् ।अप्_198.013अब्।
कौमुदव्रतमाख्यास्ये आश्विने समुपोषितः

198.014

द्वादश्यां पूजयेद्विष्णुं प्रलिप्याब्जोत्पलादिभिः ।अप्_198.014अब्।
घृतेन तिलतैलेन दीपनैवेद्यमर्पयेत्

198.015

ओं नमो वासुदेवाय मालत्या मालया यजेत् ।अप्_198.015अब्।
धर्मकामार्थमोक्षांश् च प्राप्नुयात् कौमुदव्रती

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc