भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 196

196.001

:ए इत्य् आग्नेये महापुराणे वारव्रतानि नाम पञ्चवनत्यधिकशततमो
ऽध्यायः ॥
:न्
1 अनुराधेत्यादिः ग्रहार्तिनुदित्यन्तः पाठः झ.. पुस्तके
नास्ति
:प् 227
% छप्तेर् {196}
:श् अथ षण्णवत्यधिकशततमो ऽध्यायः
नक्षत्रव्रतानि
अग्निर् उवाच
नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितो ऽर्थदः(1) ।अप्_196.001अब्।
नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत्

196.002

मूले पादौ यजेज्जङ्घे रोहिणीस्वर्चयेद्धरिं ।अप्_196.002अब्।
जानुनी चाश्विनीयोगे आषाढासूरुसञ्ज्ञके

196.003

मेढ्रं पूर्वोत्तरास्वेव कटिं वै कृत्तिकासु च ।अप्_196.003अब्।
पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च

196.004

स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं ।अप्_196.004अब्।
भुजौ पूज्यौ विशाखासु पुनर्वस्वङ्गुलीर्यजेत्

196.005

अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत् ।अप्_196.005अब्।
श्रोत्रे विष्णोश् च श्रवणे मुखं पुष्ये हरेर्यजेत्

196.006

यजेत् स्वातिषु दन्ताग्रमास्यं वारुणतो ऽर्चयेत् ।अप्_196.006अब्।
मघासु नसां नयने मृगशीर्षे ललाटकं

196.007

चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं ।अप्_196.007अब्।
गुडपूर्णे घटे ऽभ्यर्च्य शय्यागोर्थादि दक्षिणा(2)

196.008

नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः ।अप्_196.008अब्।
:न्
1 हरिः सर्वत्र पूजित इति ग..
2 शय्यागोश्चादि दक्षिणा इति ख.. , ट.. च । शय्यागोन्नादि
दक्षिणा इति घ.. , ञ.. , ज.. च । शय्याधेन्वादि सक्षिका इति ङ..
:प् 228
शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं

196.009

कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके ।अप्_196.009अब्।
नामभिः केशवाद्यैस्तु अच्युताय नमो ऽपि वा

196.010

कार्त्तिके कृत्तिकाभे ऽह्नि मासनक्षत्रगं हरिं ।अप्_196.010अब्।
शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं

196.011

केशवादि महामूर्तिमच्युतं सर्वदायकं(1) ।अप्_196.011अब्।
आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं

196.012

कार्त्तिकादौ सकासारमन्नं(2) मासचतुष्टयं(3) ।अप्_196.012अब्।
फाल्गुनादौ च कुशरमाषाढादौ च पायसं

196.013

देवाय ब्राह्मणेभ्यश् च नक्तन्नैवेद्यमाशयेत्(4) ।अप्_196.013अब्।
पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः

196.014

अर्वाग्विसर्जनाद् द्रव्यं नैवेद्यं सर्वमुच्यते ।अप्_196.014अब्।
विसर्जिते जगन्नाथे निर्माल्यन्भवति क्षणात्

196.015

नमो नमस्ते ऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं ।अप्_196.015अब्।
ऐश्वर्यवित्तादि सदाक्षयं मे(5) क्षयञ्च मा सन्ततिरभ्यपैतु

196.016

यथाच्युतस्त्वम्परतः परस्तात् स ब्रह्मभूतः परतः परात्मन् ।अप्_196.016अब्।
:न्
1 सर्वपापहमिति ङ..
2 सर्वसारमन्नमिति ख.. , ग.. , घ.. च
3 मासचतुष्टकमिति ख..
4 नक्तं नैवेद्यमर्पयेदिति झ..
5 ऐश्वर्यवित्तादि महोदयं मे इति झ..
:प् 229
तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय

196.017

अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं ।अप्_196.017अब्।
अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम

196.018

सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात् ।अप्_196.018अब्।
अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं(1)

196.019

मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं ।अप्_196.019अब्।
अनन्तं सर्वकामानामनन्तो भगवान् फलं

196.020

ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि ।अप्_196.020अब्।
अनन्तपुन्योपचयङ्करोत्येतन्महाव्रतं

196.021

यथाभिलषितप्राप्तिं करोत्यक्षयमेव च ।अप्_196.021अब्।
पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं

196.022

घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं ।अप्_196.022अब्।
चैत्रादौ शालिना होमः पयसा श्रावणादिषु

196.023

मान्धाताभूद् युवनाश्वादनन्तव्रतकात् सुतः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc