अग्नि पुराण · अध्याय 195
:ए इत्य् आग्नेये महापुराणे तिथिव्रतानि नाम चतुर्नवत्यधिकतशततमो
ऽध्यायः ॥
:प् 226
% छप्तेर् {195}
:श् अथ पञ्चनवत्यधिकशततमो ऽध्यायः
वारव्रतानि
अग्निर् उवाच
वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि ।अप्_195.001अब्।
करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा
श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् ।अप्_195.002अब्।
सङ्क्रान्तौ सूर्यवारो यः सो ऽर्कस्य हृदयः शुभः
कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् ।अप्_195.003अब्।
चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत्
स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः ।अप्_195.004अब्।
विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत्
अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्(1) ।अप्_195.005अब्।
शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत्
मूले शनैश् चरं गृह्य सप्तनक्ती ग्रहार्तिनुत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0