अग्नि पुराण · अध्याय 197
:ए इत्य् आग्नेये महापुराणे नक्षत्रव्रतकानि नाम
षण्णवत्यधिकशततमो ऽध्यायः ॥
:न्
1 नक्षत्रव्रतकामदमिति ख.. , ग.. , छ.. च । नक्षत्रव्रतके ऽन्नदमिति
घ.. , ङ.. , ञ.. च
:प् 230
% छप्तेर् {197}
:श् अथ सप्तनवत्यधिकशततमो ऽध्यायः
दिवसव्रतानि
अग्निर् उवाच
दिवसव्रतकं वक्ष्ये ह्य् आदौ धेनुव्रतं वदे ।अप्_197.001अब्।
यश्चोभयमुखीन्दद्यात् प्रभूतकनकान्वितां
दिनं पयोव्रतस्तिष्ठेत् स याति परसम्पदं ।अप्_197.002अब्।
त्र्यहं पयोव्रतं कृत्वा काञ्चनं कल्पपादपं
दत्वा ब्रह्मपदं याति कल्पवृक्षप्रदं स्मृतं ।अप्_197.003अब्।
दद्याद्विंशत् पलादूर्ध्वं(1) महीङ्कृत्वा तु काञ्चनीं
दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्याद्दिवाव्रती ।अप्_197.004अब्।
पक्षे पक्षे त्रिरात्रन्तु भक्तेनैकेन यः क्षपेत्(2)
विपुलं धनमाप्नोति त्रिरात्रव्रतकृद्दिनं ।अप्_197.005अब्।
मासे मासे त्रिरात्राशी एकभक्ती गणेशतां
यस्त्रिरात्रव्रतं(3) कुर्यात् समुहिश्य जनार्दनं ।अप्_197.006अब्।
कुलानां शतमादाय स याति भवनं हरेः
नवम्याञ्च सिते पक्षे नरो मार्गशिरस्यथ(4) ।अप्_197.007अब्।
प्रारभेत त्रिरात्राणां व्रतन्तु विधिवद् व्रती
:न्
1 दद्यात् त्रिंशत्पलादूर्ध्वमिति घ.. , ज.. , ञ.. च
2 क्षिपेदिति ख.. , ग.. , घ.. , ङ.. , ञ.. च
3 यस्त्रिरात्रशतं कुर्यादिति ग.. , घ.. , ञ..
4 मार्गशिरस्य चेति ख.. , घ.. , ज.. , ञ.. च
:प् 231
ओं नमो वासुदेवाय सहस्रं वा शतं जपेत् ।अप्_197.008अब्।
अष्टम्यामेकभक्ताशी दिनत्रयमुपावसेत्
द्वादश्यां पूजयेद् विष्णुं कार्त्तिके कारयेद् व्रतं ।अप्_197.009अब्।
विप्रान् सम्भोज्य वस्त्राणि शयनान्यासनानि च
छत्रोपवीतपात्राणि ददेत् सम्प्रार्थयेद्द्विजान् ।अप्_197.010अब्।
व्रतो ऽस्मिन् दुष्करे चापि विकलं यदभून्मम
भवद्भिस्तदनुज्ञातं परिपूर्णं भवत्विति ।अप्_197.011अब्।
भुक्तभोगो व्रजेद् विष्णुं त्रिरात्रव्रतकत्रती(1)
कार्त्तिकव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।अप्_197.012अब्।
दशम्यां पञ्चगव्याशो एकादश्यामुपोषितः
कार्त्तिकस्य सिते ऽभ्यर्च्य(2) विष्णुं देवविमानगः ।अप्_197.013अब्।
चैत्रे त्रिरात्रं नक्ताशी अजापञ्चप्रदः सुखी
त्रिरात्रं पयसः पानमुपवासपरस्त्र्यहं ।अप्_197.014अब्।
षष्ठ्यादि कार्त्तिके शुक्रे कृच्छ्रो माहेन्द्र उच्यते
पञ्चरात्रं पयः पीत्वा दध्याहारो ह्य् उपोषितः ।अप्_197.015अब्।
एकादश्यां कार्त्तिके तु कृच्छ्रो ऽयं भास्करोर्थदः(3)
यवागूं यावकं शाकं दधि क्षीरं घृतं जलं ।अप्_197.016अब्।
पञ्चम्यादि सिते पक्षे कृच्छ्रः शान्तपनः स्मृतः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0