भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 194

194.001

:ए इत्य् आग्नेये महापुराणे शिवरात्रिव्रतं नाम त्रिनवत्यधिकशततमो
ऽध्यायः ॥
:न्
1 भुक्तिमुक्तिप्रदायकमिति झ.. , ट.. च
2 स्वर्गमोक्षप्रदायिने इति ङ..
:प् 225
% छप्तेर् {194}
:श् अथ चतुर्नवत्यधिकशततमो ऽध्यायः
अशोकपूएणिमादिव्रतं
अग्निर् उवाच
अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् ।अप्_194.001अब्।
फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक्

194.002

कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।अप्_194.002अब्।
शैवं पदमवाप्नोति वृषव्रतमिदं परं

194.003

पित्र्या यामावसी तस्यां पितॄणां दत्तमक्ष्यं ।अप्_194.003अब्।
उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात्

194.004

पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् ।अप्_194.004अब्।
वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां

194.005

पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं ।अप्_194.005अब्।
त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत्

194.006

प्ररूढैः कण्ठसूत्रैश् च रजन्यां कुङ्कुमादिभिः ।अप्_194.006अब्।
वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके

194.007

नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद् द्विजे ।अप्_194.007अब्।
वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्जयेत्

194.008

सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc