भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 193

193.001

:ए इत्य् आग्नेये महापुराणे नानाचतुर्दशीव्रतानि नाम
द्विनवत्यधिकशततमो ऽध्यायः ॥
:न्
1 यजेत् स्वयमिति घ..
2 वर्षं भोगधनायुष्मानित्यादिः ध्वजाकारासु यष्टिषु
इत्य् अन्तः पाठः झ.. पुस्तके नास्ति
3 भोजनमिति घ.. , ङ.. , ज.. , झ.. , ञ.. , ट.. च
4 कथां श्रुत्वेति झ..
:प् 224
% छप्तेर् {193}
:श् अथ त्रिनवत्यधिकशततमो ऽध्यायः
शिवरात्रिव्रतम्
अग्निर् उवाच
शिवरात्रिव्रतं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु(1) ।अप्_193.001अब्।
माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी

193.002

कामयुक्ता तु सोपोष्या कुर्वन् जागरणं व्रती ।अप्_193.002अब्।
शिवरात्रिव्रतं कुर्वे चतुर्दश्यामभोजनं

193.003

रात्रिजागरणेनैव पूजयामि शिवं व्रती ।अप्_193.003अब्।
आवाहयाम्यहं शम्भुं भुक्तिमुक्तिप्रदायकं

193.004

नरकार्णवकोत्तारनावं शिव नमो ऽस्तु ते ।अप्_193.004अब्।
नमः शिवाय शान्ताय प्रजाराज्यादिदायिने

193.005

सौभाग्यारोग्यविद्यार्थस्वर्गमार्गप्रदायिने(2) ।अप्_193.005अब्।
धर्मन्देहि धनन्देहि कामभोगादि देहि मे

193.006

गुणकीर्तिसुखं देहि स्वर्गं मोक्षं च देहि मे ।अप्_193.006अब्।
लुब्धकः प्राप्तवान् पुण्यं पापी सुन्दरसेनकः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc