अग्नि पुराण · अध्याय 191
आयुरारोग्यसौभाग्यराज्यभोगादिमाप्नुयात्(2) ।अप्_190.007अब्।
:ए इत्य् आग्नेये महापुराणे अखण्डद्वादशीव्रतं नाम
नवत्यधिकशततमो ऽध्यायः ॥
:न्
1 स्वर्णपात्राणि इति ख.. , घ.. , ञ.. च
2 अग्निर् उवाच । अखण्डद्वादशीं वक्ष्ये इत्य् आदिः,
राज्यभोगादिमाप्नुयादित्यन्तः पाठः झ.. पुस्तके नास्ति
:प् 221
% छप्तेर् {191}
:श् अथैकनवत्यधिकशततमो ऽध्यायः
त्रयोदशीव्रतानि
अग्निर् उवाच
त्रयोदशीव्रतानीह सर्वदानि वदामि ते ।अप्_191.001अब्।
अनङ्गेन कृतामादौ वक्ष्ये ऽनङ्गत्रयोदशीं
त्रयोदश्यां मार्गशीर्षे शुक्ले ऽनङ्गं हरं यजेत्(1) ।अप्_191.002अब्।
मध सम्प्राशयेद्रात्रौ घृतहोमस्तिलाक्षतैः
पौषे योगेश्वरं प्रार्च्य चन्दनाशी कृताहुतिः ।अप्_191.003अब्।
महेश्वरं मौक्तिकाशी माघे ऽभ्यर्च्य दिवं व्रजेत्
काकोलं प्राश्य नीरं तु(2) फाल्गुने पूजयेद्व्रती ।अप्_191.004अब्।
कर्पूराशी स्वरूपं च चैत्रे सौभाग्यवान् भवेत्
महारूपन्तु वैशाखे यजेज्जातीफलाश्यपि ।अप्_191.005अब्।
लवङ्गाशी ज्यैष्ठदिने(3) प्रद्युम्नं पूजयेद् व्रती
तिलोदाशी तथाषाढे उमाभर्तारमर्चयेत् ।अप्_191.006अब्।
श्रावणे गन्धतोयाशी पूजयेच्छूलपाणिनं
सद्योजातं भाद्रपदे प्राशिता गुरुमर्चयेत् ।अप्_191.007अब्।
सुवर्णवारि संप्राश्य आश्विने त्रिदशाधिपम्
:न्
1 हरिं यजेदिति छ.. , ज.. , ञ.. च
2 काकोलं प्राश्य चीनञ्चेति घ.. , ज.. , झ.. , ञ.. च
3 ज्यैष्ठमासे ईत् ग.. , घ.. , ङ.. , ज.. , झ.. , ञ.. च
:प् 222
विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती ।अप्_191.008अब्।
शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु
वस्त्रेण पूजयित्वा तु दद्याद्विप्राय गान्तथा ।अप्_191.009अब्।
शयनञ्छत्रकलशान् पादुकारसभाजनम्
त्रयोदश्यां सिते चैत्रे रतिप्रीतियुतं स्मरन् ।अप्_191.010अब्।
अशोकाख्यं नगं लिख्य सिन्दूररजनीमुखैः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0