अग्नि पुराण · अध्याय 192
अव्धं यजेत्तु कामार्थी कामत्रयोदशीव्रतम् ।अप्_191.011अब्।
:ए इत्य् आग्नेये महापुराणे त्रयोदशी व्रतानि
नामैकनवत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {192}
:श् अथ द्विनवत्यधिकशततमो ऽध्यायः
चतुर्दशीव्रतानि
अग्निर् उवाच
व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं(1) ।अप्_192.001अब्।
कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम्
वर्षभोगधनायुष्मान्(2) कुर्वन् शिवचतुर्दशीम् ।अप्_192.002अब्।
मार्गशीर्षे सिते ऽष्टाभ्यां तृतीयायां मुनिव्रतः
:न्
1 भुक्तिमुक्तिप्रदं शृणु इति ख.. , घ.. , ज.. , झ.. , ञ.. , ट.. च ।
भुक्तिमुक्तिसुखप्रदमिति ङ..
2 भोगबलायुष्मानिति ङ..
:प् 223
द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत् सुरं(1) ।अप्_192.003अब्।
त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं
चतुर्दश्यां मथाष्टम्यां पक्षयोःशुक्लकृष्णयोः ।अप्_192.004अब्।
अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं
कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं ।अप्_192.005अब्।
इह भोगानवाप्नोति परत्र च शुभाङ्गतिं
कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत् सुखी ।अप्_192.006अब्।
आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु(2)
ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं ।अप्_192.007अब्।
कृत्वादर्भमयं चैव वारिधानी समन्वितं
शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च ।अप्_192.008अब्।
अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्(3)
कर्तव्यं सरितां चान्ते कथां कृत्वा(4) हरेरिति ।अप्_192.009अब्।
अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव
अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ।अप्_192.010अब्।
अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं
स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत् सुखी ॥11
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0