भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 190

190.001

:ए इत्य् आग्नेये महापुराणे श्रवणद्वादशीव्रतं
नामैकोननवत्यधिकशतत्मो ऽध्यायः ॥
:न्
1 त्रैलोक्यजननायेति झ.. , ञ.. च । त्रैलोक्यजनकायेति ङ.. , ट.. च
:प् 220
% छप्तेर् {190}
:श् अथ नवत्यधिकशततमो ऽध्यायः
अखण्डद्वादशीव्रतं
अग्निर् उवाच
अखण्डद्वादशीं वक्ष्ये व्रतसम्पूर्णताकृतं ।अप्_190.001अब्।
मार्गशीर्षे सिते विष्णुं द्वादश्यां समुपोषितः

190.002

पञ्चगव्यजले स्नातो यजेत्तत्प्राशनो व्रती ।अप्_190.002अब्।
यवव्रीहियुतम्पात्रन्द्वादश्यां हि द्विजे ऽर्पयेत्

190.003

सप्तजन्मनि यत् किञ्चिन्मया खण्डं व्रतं कृतं ।अप्_190.003अब्।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे

190.004

यथाखण्डं जगत् सर्वं त्वमेव पुरुषोत्तम ।अप्_190.004अब्।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै

190.005

एवमेवानुमासञ्च चातुर्मास्यो विधिः स्मृतः ।अप्_190.005अब्।
अन्यच्चैत्रादिमासेषु शक्तुपात्राणि(1) चार्पयेत्

190.006

श्रावणादिषु चारभ्य कार्त्तिकान्तेषु पारणं ।अप्_190.006अब्।
सप्तजन्मसु वैकल्यं व्रतानां सफलं कृते

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc