भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 189

189.001

पौषशुक्ले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती ।अप्_188.015अब्।
:ए इत्य् आग्नेये महापुराणे नानाद्वादशीव्रतानि
नामाष्टाशीत्यधिकशततमो ऽध्यायः ॥
:न्
1 मनोरथद्वादशीत्यादिः, अनन्तद्वादशीव्रतीत्यन्तः
पाठः घ.. पुस्तके नास्ति
2 आषाढर्क्षे तु मूले वा इति ख.. , ग.. , ज.. , ट.. च
3 वर्षे स्याद् भुक्तिमुक्तिद इति ग.. , घ.. च
:प् 218
% छप्तेर् {189}
:श् अथैकोननवत्यधिकशततमो ऽध्यायः
श्रवणद्वादशीव्रतम्
अग्निर् उवाच
श्रवणादशीं वक्ष्ये मासि भाद्रपदे सिते ।अप्_189.001अब्।
श्रवणेन युता श्रेष्ठा(1) महती सा ह्य् उपोषिता

189.002

सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं(2) ।अप्_189.002अब्।
बुधश्रवणसंयुक्ता दानादौ सुमहाफला

189.003

निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं ।अप्_189.003अब्।
द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं

189.004

उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं ।अप्_189.004अब्।
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं

189.005

सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके ।अप्_189.005अब्।
स्नापयामि जलैः शुद्धैर् विष्णुं(3) पञ्चामृतादिभिः

189.006

छत्रदण्डधरं विष्णुं वामनाय नमो नमः ।अप्_189.006अब्।
अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः(4)

189.007

भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु ।अप्_189.007अब्।
वामनाय नमो गन्धं होमो ऽनेनाष्टकं शतं

189.008

:न्
1 श्रवणेन समायुक्तेति घ..
2 द्वादशद्वादशीफलमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. च
3 शुद्धैर् हरिमिति ग.. , ट.. च
4 मुदार्चित इति ग..
:प् 219
ओं नमो वासुदेवाय शिरः सम्पूजयेद्धरेः ।अप्_189.008अब्।
श्रीधराय मुखं तद्वत् कण्ठे कृष्णाय वै नमः

189.009

नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे ।अप्_189.009अब्।
व्यापकाय नमो नाभिं वामनाय नमः कटिं

189.010

त्रैलोक्यजयकायेति(1) मेढ्रं जङ्घे यजेद्धरेः ।अप्_189.010अब्।
सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः

189.011

घृतपक्वञ्च नैवेद्यन्दद्याद् दध्योदनैर् घटान् ।अप्_189.011अब्।
रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे

189.012

गन्धपुष्पादिभिः पूज्य वदेत् पुष्पाञ्जलिस्त्विदं ।अप्_189.012अब्।
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित

189.013

अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ।अप्_189.013अब्।
प्रीयतान्देव देवेश मम नित्यञ्जनार्दन

189.014

वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं ।अप्_189.014अब्।
वामनः प्रतिगृह्णाति वामनो मे ददाति च

189.015

द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः ।अप्_189.015अब्।
प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc