भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 188

188.001

:ए इत्य् आग्न्येये महापुराणे एकादशीव्रतं नाम
सप्ताशीत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {188}
:श् अथाष्टाशीत्यधिकशततमो ऽध्यायः
द्वादशीव्रतानि
अग्निर् उवाच
द्वादशीव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।अप्_188.001अब्।
एकभक्तेन भक्तेन तथैवायाचितेन च

188.002

उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती ।अप्_188.002अब्।
चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिं

188.003

पूजयेद्भुक्तिमुक्त्यर्थी(4) मदनद्वादशईव्रती ।अप्_188.003अब्।
माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती

188.004

नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् ।अप्_188.004अब्।
फाल्गुने च सिते पक्षे गोविन्दद्वादशीव्रती

188.005

विशोकद्वादशीकारी यजेदाश्वयुजे हरिं ।अप्_188.005अब्।
लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः

188.006

ददाति शुक्लद्वादश्यां स सर्वरसदायकः ।अप्_188.006अब्।
:न्
1 कीटिकोटिगुणोत्तमेति ख..
2 एकादश्यामृषिं पूज्येति ख.. , छ.. च । एकदश्यामृषिपूजेति
ङ..
3 कार्या सर्वाघहारिणीति झ.. , ञ.. च
4 भुक्तिमुक्त्यर्थमिति छ.. , ञ.. च
:प् 217
गोवत्सं पूजयेद् भाद्रे गोवत्सद्वादशीव्रती

188.007

माध्यान्तु समतीतायां श्रवणेन तु संयुता ।अप्_188.007अब्।
द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिलद्वादशी

188.008

तिलैः स्नानन्तिलैर् होमो नैवेद्यन्तिलमोदकं ।अप्_188.008अब्।
दीपश् च तिलतैलेन तथा देयं तिलोदकं

188.009

तिलाश् च देया विप्रेभ्यः फलं होमोपवासतः ।अप्_188.009अब्।
ओं नमो भगवते ऽथो वासुदेवाय वै यजेत्

188.010

सुकलः स्वर्गमाप्नोति षट्तिलद्वादशीव्रती ।अप्_188.010अब्।
मनोरथद्वादशीकृत् फाल्गुने तु सिते ऽर्चयेत्

188.011

नामद्वादशीव्रतकृत् केशवाद्यैश् च नामभिः ।अप्_188.011अब्।
वर्षं यजेद्धरिं स्वर्गी न भवेन् नारकी नरः

188.012

फाल्गुनस्य सिते ऽभ्यर्च्य सुमतिद्वादशीव्रती ।अप्_188.012अब्।
मासि भाद्रपदे शुक्ते अनन्तद्वादशीव्रती(1)

188.013

अश्लेषर्क्षे तु मूले वा(2) माघे कृष्णाय वै नमः ।अप्_188.013अब्।
यजेत्तिलांश् च जुहुयात्तिलद्वादशीकृन्नरः

188.014

सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् ।अप्_188.014अब्।
जय कृष्ण नमस्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः(3)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc