अग्नि पुराण · अध्याय 184
धर्मं कामं च सौभाग्यं स्वर्गं मोक्षं च देहि मे ।अप्_183.018अब्।
:ए इत्य् आग्नेये महापुराणे जयन्त्यष्टमीव्रतं नाम
त्र्यशीत्यधिकशततमो ऽध्यायः ॥
:न्
1 सर्वदा इति घ.. , ङ.. च
2 विश्वेशाय नमो ऽस्तु ते इति ज..
3 पारगमिति ग.. । सर्वायेत्यादिः. पावनमित्यन्तः पाठः छ..
पुस्तके नास्ति
4 कृष्णलोकभागिति छ..
5 पुत्रार्थो लभते सुतमिति ज.. , ट.. च
:प् 210
% छप्तेर् {184}
:श् अथ चतुरशित्यधिकशततमो ऽध्यायः
अष्टमीव्रतानि
अग्निर् उवाच
ब्रह्मादिमातृयजनाज्जपेन् मातृगणाष्टमीं ।अप्_184.001अब्।
कृष्णाष्टाभ्यां चैत्रमासे पूज्याब्दंकृष्णमर्थभाक्
कृष्णाष्टमीव्रतं वक्ष्ये मासे मार्गशिरे चरेत् ।अप्_184.002अब्।
नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि
भूमिशायी निशायाञ्च शङ्करं पुजयेद् व्रती ।अप्_184.003अब्।
पौषे शम्भुं घृतं प्राश्य माघे क्षीरंमहेश्वरम्(1)
महादेवं फाल्गुने च तिलाशी(2) समुपोषितः ।अप्_184.004अब्।
चैत्रे स्थाणुं यवाशी च वैशाखे ऽथ शिवं यजेत्
कुशोदशी पशुपतिं ज्यैष्ठे शृङ्गोदकाशनः ।अप्_184.005अब्।
आषाढे गोमयाश्युग्रं श्रावणे सर्वमर्कभुक्
त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि ।अप्_184.006अब्।
तण्डुलाशी चाश्वयुजे ईशं रुदन्तु कार्त्तिके
दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्(3) ।अप्_184.007अब्।
गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं
प्रार्थयित्वा द्विजान् भोज्य(4) भुक्तिमुक्तिमवाप्नुयात् ।अप्_184.008अब्।
:न्
1 माघे क्षीरी महेश्वरमिति घ.. , छ.. , ञ.. च
2 तिलादीति ज..
3 वर्षे वर्षे तु मण्डले इति ञ..
4 द्विजान् तोष्य इति ज..
:प् 211
नक्ताशी त्वष्टमीषु स्याद् वत्सरान्ते च धेनुदः
पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते(1) ।अप्_184.009अब्।
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा
तदा व्रतं प्रकुर्वीत अथवा सगुडाशिता ।अप्_184.010अब्।
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयं ।अप्_184.011अब्।
भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां
सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् ।अप्_184.012अब्।
शक्तितो दक्षिणान्दद्यात् कर्कटीन्तण्डुलान्वितां(2)
धीरो द्विजो ऽस्य(3) भार्यास्ति रम्भा पुत्रस्तु कैशिकः ।अप्_184.013अब्।
दुहिता विजया तस्य धीरस्य धनदो वृषः(4)
कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं ।अप्_184.014अब्।
गङ्गायां स्नानकृत्ये ऽथ(5) नीतश् चौरैर् वृषस्तदा
स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः ।अप्_184.015अब्।
विजयाभगिनीयुक्तो ददर्श स सरोवरे
दिव्यस्त्रीयोषितां वृन्दमव्रवीद्देहि भोजनं ।अप्_184.016अब्।
स्त्रीवृन्दमूचे व्रतकृद् भुङ्क्ष्व त्वमतिथिर्यतः
व्रतं कृत्वा स बुभुजे प्राप्तवान् वनपालकं ।अप्_184.017अब्।
:न्
1 सुगतिव्रतमुच्यते इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च
।सुशान्तिव्रतमुच्यते इति ज..
2 कर्करीन्तण्डुलान्वितामिति ख.. , घ.. , ङ.. च ।
गर्गरीन्तण्डुलान्वितामिति झ..
3 वीरो द्विजो ऽस्येति ग.. , घ.. , ङ.. , ज.. , ञ.. च
4 वीरस्य धनपो वृष इति ख.. , छ.. , ट.. च । वीरस्य धनदो
वृष इति घ.. , ङ.. , ज.. , ञ.. च
5 स्नानकृत्येषु इति ट..
:प् 212
गतो धीरः(1) सवृषभो विजयासहितस्तदा
धीरेण(2) विजया दत्ता यमायान्तरितः पिता ।अप्_184.018अब्।
व्रतभावात् कौशिको ऽपि ह्य् अयोध्यायां नृपो ऽभवत्
पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता ।अप्_184.019अब्।
मृगयामागतं प्रोचे मुच्यते नरकात् कथं
व्रतद्वयाद्यमः प्रोचे प्राप्य तत् कैशिको ददौ ।अप्_184.020अब्।
बुधाष्टमीद्वयफलं स्वर्गतौ पितरौ ततः(3)
विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये ।अप्_184.021अब्।
अशोककलिकाश्चाष्तौ ये पिवन्ति पुनर्वसौ
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ।अप्_184.022अब्।
त्वामशोकहराभीष्ट मधुमाससमुड्गव
पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ।अप्_184.023अब्।
चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0