भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 185

185.001

:ए इत्य् आग्नेये महापुराणे अष्टमीव्रतानि नाम
चतुरशीत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {185}
:श् अथ पञ्चाशीत्यधिकशततमो ऽध्यायः
नवमीव्रतानि ॥
अग्निर् उवाच
नवमीव्रतकं वक्ष्ये भुक्तिमुक्त्यादिसिद्धिदं ।अप्_185.001अब्।
देवी पूज्याश्विने शुक्ले गौर्याख्यानवमीव्रतं

185.002

:न्
1 गतो वीर इति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. च
2 वीरेणेति ट..
3 पितरौ तदेति ख..
:प् 213
पिष्टकाख्या तु नवमी पिष्टाशी देवपूजनात् ।अप्_185.002अब्।
अष्टम्यामाश्विने शुक्ते कन्यार्कमूलभे यदा

185.003

अघार्दना सर्वदा वै महती नवमी स्मृता ।अप्_185.003अब्।
दुर्गा तु नवगेहस्था एकागारस्थिताथवा

185.004

पूजिताष्टादशभुजा शेषाः षोडशमत्कराः(1) ।अप्_185.004अब्।
शेषाः षोडशहस्ताः स्युरञ्जनं डमरुन्तथा

185.005

रुद्रचण्डा प्रचण्डा च चण्डोग्रा सण्डनायिका ।अप्_185.005अब्।
चण्डा चण्डवती पूज्या चण्डरूपातिचण्डिका

185.006

क्रमान्मध्ये चोग्रचण्डा दुर्गा महिषमर्दिनी(2) ।अप्_185.006अब्।
ओं दुर्गे दुर्गे रक्षणि स्वाहा दशाक्षारो मन्त्रः

185.007

दीर्घाकारादिमन्त्रादिर् नवनेत्रो नमो ऽन्तिकः ।अप्_185.007अब्।
षड्भिः पदैर् नमःस्वधावषट्कारहृदादिकं

185.008

अङ्गुष्ठादिकनिष्ठान्तं न्यस्याङ्गानि जपेच्छिवां(3) ।अप्_185.008अब्।
एतञ्जपति(4) यो गुह्यं नासौ केनापि बाध्यते

185.009

कपालं खेटकं घण्टां दर्पणन्तर्जनीन्धनुः ।अप्_185.009अब्।
ध्वजण्डमरुकं पाशं वामहस्तेषु विभ्रतीं

185.010

शक्तिमुद्गरशूलानि वज्रं खड्गञ्च कुन्तकं ।अप्_185.010अब्।
शङ्खं चक्रं शलाकां च आयुधानि च पूजयेत्

185.011

पशुञ्च काली कालीति जप्त्वा खड्गेन घातयेत् ।अप्_185.011अब्।
कालि कालि वज्रेश्वरि लौहदण्डायै नमः

185.012

:न्
1 षोडशहस्तका इति ङ..
2 क्रमात् मध्ये चोपचण्डां क्ट्त्वा महिषमर्दिनीमिति ग..
3 दीर्घाकारादीत्यादिः, जपेच्छिवामित्यन्तः पाठः घ.. , ज..
, झ.. , ञ.. पुस्तके नास्ति
4 एवं जपतीति ज.. , झ.. च
:प् 214
तदुत्थं रुधिरं मांसं पूतनायै च नैरृते ।अप्_185.012अब्।
वायव्यां पापराक्षस्यै चरक्यै नम ईश्वरे

185.013

विदारिकायै चाग्नेय्यां महाकौशिकमग्नये(1) ।अप्_185.013अब्।
तस्याग्रतो नृपः स्नायाच्छत्रुं पिष्टमयं हरेत्(2)

185.014

दद्यात् स्कन्दविशाखाभ्यां ब्राह्माद्या निशि ता यजेत् ।अप्_185.014अब्।
जयन्ती मङ्गला काली भद्रकाली कपालिनी

185.015

दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमो ऽस्तु ते ।अप्_185.015अब्।
देवीं पञ्चामृतैः स्नाप्य पूजयेच्चार्हणादिना

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc