भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 183

183.001

:ए इत्य् आग्नेये महापुराणे सप्तमीव्रतानि नाम
द्व्यशीत्यधिकशततमो ऽध्यायः ॥
:न्
1 मार्गशीर्षे चरेद्व्रतमिति घ.. , ज.. , झ.. , ट.. च
2 सर्वथा भुक्तिमुक्तिदमिति घ.. , ज.. , झ.. च
:प् 208
% छप्तेर् {183}
:श् अथ त्र्यशीत्यधिकशततमो ऽध्यायः
अष्टमीव्रतानि
अग्निर् उवाच
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ।अप्_183.001अब्।
मासि भाद्रपदे ऽष्टभ्यां रोहिण्यामर्धरात्रके

183.002

कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततो ऽष्टमी ।अप्_183.002अब्।
सप्तजन्मकृतात् पापात् मुच्यते चोपवासतः

183.003

कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते ।अप्_183.003अब्।
उपाषितोर्चयेत् कृष्णं(1) भुक्तिमुक्तिप्रदायकं

183.004

आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं ।अप्_183.004अब्।
वसुदेवं यशोदाङ्गाः(2) पूजयामि नमो ऽस्तु ते

183.005

योगाय योगपतये योगेशाय नमो नमः ।अप्_183.005अब्।
योगादिसम्भावयैव गोविन्दाय नमो नमः

183.006

स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् ।अप्_183.006अब्।
यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः

183.007

यज्ञादिसंभवायैव गोविन्दाय नमो नमः ।अप्_183.007अब्।
गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते

183.008

सर्वकामप्रदो देव भव मे देववन्दित ।अप्_183.008अब्।
धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे

183.009

सुगन्ध धूपगन्धाढ्यं कुरु मां सर्वदा हरे ।अप्_183.009अब्।
:न्
1 विष्णुमिति ट..
2 यशोदाञ्चेति ङ.. , ज.. च
:प् 209
दीपदीप्त महादीपं दीपदीप्तद सर्वदा(1)

183.010

मया दत्तं गृहाण त्वं कुरु चोर्ध्वगतिं च मां ।अप्_183.010अब्।
विश्वाय विश्वपतये विश्वेशाय नमो नमः(2)

183.011

विश्वादिसम्भवायैव गोविन्दाय निवेदितं ।अप्_183.011अब्।
धर्माय धर्मपतये दर्मेशाय नमो नमः

183.012

धर्मादिसम्भवायैव गोविन्दशयनं कुरु ।अप्_183.012अब्।
सर्वाय सर्वपतये सर्वेशाय नमओ नमः

183.013

सर्वादिसम्भवायैव गोविन्दाय च पावनं(3) ।अप्_183.013अब्।
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव

183.014

गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ।अप्_183.014अब्।
स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत्

183.015

देवकीं वसुदेवं च यशोदां नन्दकं बलं ।अप्_183.015अब्।
अर्धरात्रे परोधाराः पातयेद् गुडसर्पिषा

183.016

वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती ।अप्_183.016अब्।
जन्माष्टमीव्रतकरः पुत्रवान्विष्णुलोकभाक्(4)

183.017

वर्षे वर्षे तु यः कुर्यात् पुत्रार्थी वेत्ति नो भयं(5) ।अप्_183.017अब्।
पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc