भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 178

178.001

:ए इत्य् आग्नेये महापुराणे द्वितीयाव्रतानि नाम
सप्तसप्तत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {178}
:श् अथाष्टसप्तत्यधिकशततमो ऽध्यायः
तृतीयाव्रतानि
अग्निर् उवाच
तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते ।अप्_178.001अब्।
ललितायां तृतीयायां मूलगौरीव्रतं शृणु

178.002

तृतीयायां चैत्रशुक्ले ऊढा गौरी हरेण हि ।अप्_178.002अब्।
तिलस्नातो ऽर्चयेच्छम्भुं गौर्या हैमफलादिभिः

178.003

नमो ऽस्तु पाटलायैव पादौ देव्याः शिवस्य च ।अप्_178.003अब्।
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत्

178.004

त्रिपुरघ्नाय रुद्राय भान्यै जङ्घयोर्द्वयओः ।अप्_178.004अब्।
शिवं रुद्रायेश्वराय(1) विजयायैव जानुनी

178.005

ईशायेति कटिं देव्याः(2) शङ्करायेति शङ्करम् ।अप्_178.005अब्।
:न्
1 शिवं रुद्राय विश्वायेति ख.. , छ.. च । शिवं भद्रायेश्वरायेति ज..
, झ.. , ञ.. , ट.. च
2 ईशाय कट्यां देव्याश् च इति ङ.. । ईशायेति तातो देव्या इति
घ..
:प् 202
कुक्षिद्वयञ्च कोटव्यै शूलिनम् शूलपाणये

178.006

मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् ।अप्_178.006अब्।
सर्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं

178.007

शिवं देवात्मने तद्वत् ह्रादिन्यै(1) कण्ठमर्चयेत् ।अप्_178.007अब्।
महादेवाय च शिवमनन्तायै करद्वयं

178.008

त्रिलोचनायेति हरं बाहुं कालानलप्रिये(2) ।अप्_178.008अब्।
सौभाग्यायै महेशाय भूषणानि प्रपूजयेत्

178.009

अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ ।अप्_178.009अब्।
चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः

178.010

नमो ऽर्धनारीशहरममिताङ्ग्यै च नासिकां ।अप्_178.010अब्।
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ

178.011

सर्वाय पुरहन्तारं(3) वासन्त्यै चैव तालुकं(4) ।अप्_178.011अब्।
नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं

178.012

भीमोग्राय सुपूपिण्यै शिरः सर्वात्मने नमः ।अप्_178.012अब्।
मल्लिकाशोककमलकुन्दन्तगरमालती(5)

178.013

कदम्बकरवीरञ्च(6) वाणमम्लानकुङ्कुमं ।अप्_178.013अब्।
सिन्धुवारञ्च मासेषु सर्वेषु क्रमशः स्मृतं

178.014

उमामहेश्वरौ पूज्य सौभाग्याष्टकमग्रतः(7) ।अप्_178.014अब्।
:न्
1 शिवं वेदात्मने तद्वद्रूपिण्यै इति घ.. , ज.. , ञ.. च
2 हरञ्चान्तकालानलप्रिये इति ख.. , घ.. , ज.. , ञ.. च
3 पुरहर्तारमिति घ..
4 वासन्यै च तथालकमिति छ.. , ट.. च
5 मल्लिकाशोककमलच्छदं तगरमालती इति ख.. , घ.. , ज.. च
6 कुन्दञ्च करवीरञ्चेति ख.. , घ.. , ज.. च
7 मल्लिकाशोकेत्यादिः, सौभाग्याष्टकमग्रतः इत्य् अन्तः छ..
पुस्तके नास्ति
:प् 203
स्थापयेद्(1) घृतनिष्पावकुसुम्भक्षीरजीवकं

178.015

तरुराजेक्षुलवणं(2) कुस्तुम्बुरुमथाष्टमं ।अप्_178.015अब्।
चैत्रे शृगोदकं प्राश्य देवदेव्यग्रतः स्वपेत्

178.016

प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्चयेत्(3) ।अप्_178.016अब्।
तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम(4)

178.017

शृङ्गोदकं(5) गोमयं च मन्दारं बिल्वपत्रकं ।अप्_178.017अब्।
कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम्

178.018

गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं ।अप्_178.018अब्।
ललिता विजया भद्रा भवानी कुमुदा शिवा

178.019

वासुदेवी तथा गौरी मङ्गला कमला सती ।अप्_178.019अब्।
चैत्रादौ दानकाले च प्रीयतामिति वाचयेत्

178.020

फलमेकं पवित्राज्यं(6) व्रतान्ते शयानं ददेत् ।अप्_178.020अब्।
उमामहेश्वरं हैमं वृषभञ्च गवा सह

178.021

गुरुञ्च मिथुनान्यर्च्य(7) वस्त्राद्यैर् भुक्तिमुक्तिभाक्(8) ।अप्_178.021अब्।
सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतान्

178.022

नभस्ये वाथ वैशाखे कुर्यान्मार्गशिरस्यथ(9) ।अप्_178.022अब्।
:न्
1 अर्पयेदिति ख.. , छ.. च
2 तृणराजेक्षुलवणमिति ख.. , छ.. , ट.. च
3 द्विजदाम्पत्यमर्चयेदिति ख.. , घ.. , छ.. , ट.. च
4 ललिता प्रीयतामिति ट..
5 पृष्ठोदकमिति ञ.. । कूपोदकमिति ज.. , झ.. च
6 परित्याज्यमिति क.. , ज.. , ठ.. च । परित्यज्येति ख.. , छ.. च । परिग्राह्यमिति
ङ..
7 गुरुं मिथुनमभर्च्येति ङ..
8 वस्त्राद्यैः सर्वमाप्नुयादिति ख.. , घ.. , ङ.. , छ.. , झ.. , ञ.. , ट..
च
9 कुर्याद्वा मार्गशीर्षके इति ङ.. , ञ.. च
:प् 204
शुक्लपक्षे तृतीयायाम् ललितायै नमो यजेत्

178.023

प्रतिपक्षं ततः प्रार्च्य व्रतान्ते(1) मित्युनानि च ।अप्_178.023अब्।
चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर् भुक्तिमुक्तिभाक्

178.024

उक्तो मार्गो द्वितीयो ऽयं सौभाग्यव्रतमावदे ।अप्_178.024अब्।
फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत्

178.025

समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं ।अप्_178.025अब्।
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति(2)

178.026

सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी ।अप्_178.026अब्।
माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा

178.027

दमनकतृतीयाकृत् चैत्रे दमनकैर् यजेत् ।अप्_178.027अब्।
आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना

178.028

गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ।अप्_178.028अब्।
वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात्(3)

178.029

मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc