अग्नि पुराण · अध्याय 179
:ए इत्य् आग्नेये महापुराणे तृतीयाव्रतानि नाम
अष्टसप्तत्यधिकशततमो ऽध्यायः ॥
:न्
1 वर्षान्ते इति ख.. , ङ.. , ट.. च
2 अलङ्काराणि सर्वाणि भवानो प्रीयतामिति ट..
3 दमनकतृतीयाकृदित्यादिः नारायणी क्रमादित्यन्तः
पाठः ज.. पुस्तके नास्ति
:प् 205
% छप्तेर् {179}
:श् अथैकोनाशीत्यधिकशततमो ऽध्यायः ॥
चतुर्थीव्रतानि
अग्निर् उवाच
चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते(1) ।अप्_179.001अब्।
माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद् गुणं
पञ्चम्याञ्च तिलान्नादी वर्षान्निर्विघ्नतः(2) सुखी ।अप्_179.002अब्।
गं स्वाहा(3) मूलमन्त्रो ऽयं गामाद्यं हृदयादिकं
आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं ।अप्_179.003अब्।
उल्कान्तैर् गादिगन्धाद्यैः पूजयेन्मोदकादिभिः
ओं महोल्काय विद्महे वक्रतुण्डाय(4) धीमहि तन्नो दन्ती
प्रचीदयात्
मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् ।अप्_179.004अब्।
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या व्रजेत्
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि ।अप्_179.005अब्।
चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0