भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 177

177.001

वैश्वानरपदं याति शिखिव्रतमिदं स्मृतं ।अप्_176.007अब्।
:ए इत्य् आग्नेये महापुराणे प्रतिपद्व्रतानि नाम
षट्सप्तत्यधिकशततमो ऽध्यायः ॥
:न्
1 अक्षमालाश्रुचं दक्षे इति छ..
2 वामे दण्डकमण्डलु इति छ.. , झ.. । वामे श्रुवकमण्डलु इति
छ..
3 नक्तं कृच्चाभ्युपोषित इति ग..
:प् 199
% छप्तेर् {177}
:श् अथ सप्तसप्तत्यधिकशततमो ऽध्यायः
द्वितीयाव्रतानि
अग्निर् उवाच
द्वितीयाव्रतकं वक्ष्ये भुक्तिमुक्तिदायकं ।अप्_177.001अब्।
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत् सुरौ

177.002

अब्दं स्वरूपसौभाग्यं स्वर्गभाग् जायते व्रती ।अप्_177.002अब्।
कार्त्तिके शुक्तिपक्षस्य(1) दितीयायां यमं यजेत्

177.003

अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ।अप्_177.003अब्।
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं

177.004

कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं ।अप्_177.004अब्।
श्रीवत्सधारिन् श्रिकान्त श्रीधामन् श्रीपते ऽव्यय

177.005

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं ।अप्_177.005अब्।
अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः

177.006

पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।अप्_177.006अब्।
लक्ष्म्या वियुज्यते देवो न कदाशिद्यथा भवान्

177.007

तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां ।अप्_177.007अब्।
लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो

177.008

शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ।अप्_177.008अब्।
लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च

177.009

प्रतिमासं च सोमाय दद्यादर्घ्यं समन्त्रकं ।अप्_177.009अब्।
:न्
1 शुक्तपक्षे तु इति ग..
:प् 200
गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव

177.010

भाभासितादिगाभोग रामानुज नमो ऽस्तु ते ।अप्_177.010अब्।
ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत्

177.011

घं ढं भं हं श्रियै नमो दशरूपमहात्मने ।अप्_177.011अब्।
घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये(1)

177.012

दीपान्नभाजनैर् युक्तं छत्रोपानहमासनं ।अप्_177.012अब्।
सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं(2)

177.013

पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् ।अप्_177.013अब्।
कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत्

177.014

नक्तभोजी द्वितीयायां पूजयेद् बलकेशवौ ।अप्_177.014अब्।
वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं

177.015

अथ शिष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ।अप्_177.015अब्।
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं

177.016

पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(3)स्मृतं ।अप्_177.016अब्।
वचया च तृतीये ऽह्नि सर्वौषध्या चतुर्थके

177.017

मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वर्य(4) ।अप्_177.017अब्।
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः

177.018

नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ।अप्_177.018अब्।
पादे नाभ्यां चक्षुषि च क्रमाच्छिरसि पुष्पकैः

177.019

शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्यं इन्दवे ।अप्_177.019अब्।
नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः

177.020

:न्
1 शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. ,
ट.. च
2 विप्रायाथ च पानकमिति घ.. , ञ.. च
3 शुक्ततिलैर् इति ग..
4 पूर्वं सिद्धार्थकैर् इत्यादिः, रजनीद्वयमित्यन्तः पाठः
झ.. पुस्तके नास्ति
:प् 201
षण्मासं पावनं चाब्दं प्राप्नुयात् सकलं व्रती ।अप्_177.020अब्।
एतद् व्रतं नृपैः स्त्रीभिः कृतं पूर्वं सुरादिभिः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc