अग्नि पुराण · अध्याय 168
:ए इत्य् आग्नेये महपुराणे ऽयुतलक्षकोटिहोमा नाम
सप्तषष्ट्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {168}
:श् अथाष्टषष्ट्यधिकशततमो ऽध्यायः
महापातकादिकथनम्
पुष्कर उवाच
दण्डं कुर्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां ।अप्_168.001अब्।
कामतो ऽकामतो वापि प्रायश्चित्तं कृतं चरेत्
:न्
1 जातवेदोमुखैः सौरैर् इति ख..
2 रिपुं हरेदिति ङ.. , ञ.. च
:प् 166
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।अप्_168.002अब्।
महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया
गणान्नं गणिकान्नं च(1) वार्धुषेर्गायनस्य च ।अप्_168.003अब्।
अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे
रजकस्य नृशंसस्य वन्दिनः कितवस्य च ।अप्_168.004अब्।
मिथ्यातपस्विनश् चैव चौरदण्डिकयोस् तथा(2)
कुण्डगोलस्त्रीजितानां वेदविक्रयिणस् तथा ।अप्_168.005अब्।
शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च
कर्मारस्य निषादस्य चेलनिर्णेजकस्य च ।अप्_168.006अब्।
मिथ्याप्रव्रजितस्यान्नम्पुंश् चल्यास्तैलिकस्य च
आरूढपतितस्यान्नं विद्विष्टान्नं च वर्जयेत् ।अप्_168.007अब्।
तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः
ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः ।अप्_168.008अब्।
एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत्
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ।अप्_168.009अब्।
चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत्
अनिर्दिशं च प्रेतान्नं गवाघ्रातं तथैव च ।अप्_168.010अब्।
शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च
तप्तकृच्छ्रं प्रकुर्वीत अशौचे कृच्छ्रमाचरेत् ।अप्_168.011अब्।
अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस् तथा भवेत्
मृतपञ्चनखात् कूपादमेध्येन सकृद्युतात् ।अप्_168.012अब्।
:न्
1 गणानां गणिकानाञ्चेति ङ.. , ञ.. च
2 चौरदाम्भिकयोस्तथेति ञ..
:प् 167
अपः पीत्वा त्र्यहं तिष्ठेत् सोपवासो द्विजोत्तमः
सर्वत्र शूद्रे पादः स्याद् द्वित्रयं वैश्यभूपयोः(1) ।अप्_168.013अब्।
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।अप्_168.014अब्।
शुष्काणि जग्ध्वा मांसानि(2) प्रेतान्नं करकाणि च
क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः ।अप्_168.015अब्।
गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं
मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति ।अप्_168.016अब्।
आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन्
लशुनं गुञ्जनं चाद्यात् प्राजापत्यादिना शुचिः(3) ।अप्_168.017अब्।
भुक्त्वा चान्द्रायणं कुर्यान् मांसञ्चात्मकृतन्तथा
पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं ।अप्_168.018अब्।
वृथाकृशरसंयावपायसापूपशष्कुलीः
अनुपाकृटमांसानि देवान्नानि हवींषि च ।अप्_168.019अब्।
गवाञ्च महिषीणां च वर्जयित्वा तथाप्यजां
सर्वक्षीराणि वर्ज्याणि तासाञ्चैवाप्यन्निर्दशं ।अप्_168.020अब्।
शशकः शल्यकी गोधा खड्गः कूर्मस्तथैव च
भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश् च वर्जिताः ।अप्_168.021अब्।
पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश् च भक्षयेत्
यवगोधूमजं सर्वं पयसश् चैव विक्रियाः ।अप्_168.022अब्।
वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा
:न्
1 द्वितीयं वैश्यशूद्रयोरेति क.. , ख.. , ङ.. , ञ.. च
2 शुष्काणि दग्धमंसानि इति ङ..
3 प्राजापत्याद्द्विजः शुचिरिति ख..
:प् 168
अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः ।अप्_168.023अब्।
चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।अप्_168.024अब्।
महान्ति पातकान्याहुः संयोगश् चैव तैः सह
अनृते च समुत्कर्षो राजगामि च पैशुनं ।अप्_168.025अब्।
गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया(1)
ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः ।अप्_168.026अब्।
गर्हितान्नाज्ययोर्जग्धिः(2) सुरापानसमानि षट्
निक्षेपस्यापहरणं नराश्वरजतस्य च ।अप्_168.027अब्।
भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतं
रेतःसेकः स्वयोन्याषु कुमारीष्वन्त्यजासु च ।अप्_168.028अब्।
सख्युः पुत्रस्य च(3) स्त्रीषु गुरुतल्पसमं विदुः
गोबधो ऽयाज्य संयाज्यं पारदार्यात्मविक्रियः ।अप्_168.029अब्।
गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च
परिवित्तितानुजेन परिवेदनमेव च ।अप्_168.030अब्।
तयोर्दानञ्च कन्यायास्तयोरेव च याजनं
कन्याया दूषणञ्चैव वार्धुष्यं व्रतलोपनं ।अप्_168.031अब्।
तडागारामदाराणामपत्यस्य च विक्रियः
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ।अप्_168.032अब्।
भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः
:न्
1 समानि ब्रह्महत्ययेति ख.. , ङ.. , ञ.. च
2 गर्हितानामन्नजग्धिरिति ङ..
3 सख्युः सुतस्य चेति ङ..
:प् 169
सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनं ।अप्_168.033अब्।
हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च
इन्धनार्थमशुष्काणां दुमाणाञ्चैव पातनं ।अप्_168.034अब्।
योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः
आत्मार्थञ्च क्रियारम्भो निन्दितान्नदनन्तथा ।अप्_168.035अब्।
अनाहिताग्नितास्तेयमृणानाञ्चानपक्रिया
असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया ।अप्_168.036अब्।
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं
स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं ।अप्_168.037अब्।
ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः
जैंभं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं ।अप्_168.038अब्।
श्वखरोष्ट्रमृगेन्द्राणामजाव्योश् चैव मारणं(1)
सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ।अप्_168.039अब्।
निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं ।अप्_168.040अब्।
कृमिकीटवयोहत्या मद्यानुगतभोजनं
फलैधःकुसुमस्तेयमधैर् यञ्च मलावहं ॥41
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0