भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 153

153.001

:ए इत्य् आग्नेये महापुराणे गृहस्थवृत्तयो नाम
व्रिपञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {153}
:श् अथ त्रिपञ्चाशदधिकशततमो ऽध्यायः
ब्रह्मचर्याश्रमधर्मः
पुष्कर उवाच
धर्ममाश्रमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।अप्_153.001अब्।
षोडशर्तुनिशा स्त्रीणामाद्यस्तिस्रस्तु गर्हिताः

153.002

व्रजेद्युग्मासु पुत्रार्थी कर्माधानिकमिष्यते ।अप्_153.002अब्।
गर्भस्य स्पष्टताज्ञाने सवनं स्पन्दनात् पुरा

153.003

षष्ठे ऽष्टमे वा सीमन्तं पुत्रीयं नामभं शुभं ।अप्_153.003अब्।
अच्छिन्ननाड्यां कर्तव्यं जातकर्म विचक्षणैः

153.004

अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ।अप्_153.004अब्।
शर्मान्तं ब्राह्मस्योक्तं वर्मान्तं क्षत्रियस्य तु

153.005

गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।अप्_153.005अब्।
:प् 120
शर्मान्तं ब्रह्मणस्योक्तं वर्मान्तं क्षत्रियस्य च

153.006

गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।अप्_153.006अब्।
बालं निवेदयेद्भर्त्रे तव पुत्रो ऽयमित्युत

153.007

यथाकुलन्तु चूडाकृद् ब्राह्मणस्योपनायनं ।अप्_153.007अब्।
गर्भाष्टमे ऽष्टमे वाब्दे गर्भादेकादशे नृपे

153.008

गर्भात्तु द्वादशे वैश्ये षोडशाब्दादितो न हि ।अप्_153.008अब्।
मुञ्जानां वल्कलानान्तु क्रमान्मौज्ज्याः प्रकीर्तिताः

153.009

मार्गवैयाध्रवास्तानि चर्माणि व्रतचारिणां ।अप्_153.009अब्।
पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः

153.010

केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु ।अप्_153.010अब्।
अवक्राः सत्वचः सर्वे नाविप्लुष्टास्तु दण्डकाः

153.011

वासोपवीते कार्पासक्षौमोर्णानां यथाक्रमं ।अप्_153.011अब्।
आदिमध्यावसानेषु भवच्छब्दोपलक्षितं

153.012

प्रथमं तत्र भ्हिक्षेत यत्र भिक्षा ध्रुवं भवेत् ।अप्_153.012अब्।
स्त्रीणाममन्त्रतस्तानि विवाहस्तु समन्त्रकः

153.013

उपनीय गुरुः शिष्यं सिक्षयेच्छौचमादितः ।अप्_153.013अब्।
आचारमग्निकार्यं च सन्ध्योपासनमेव च

153.014

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।अप्_153.014अब्।
श्रियं प्रत्यङ्मुखी भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः

153.015

सायं प्रातश् च जुहुयान् नामेध्यं व्यस्तहस्तकं ।अप्_153.015अब्।
मधु मांस जनैः सार्धं गीतं नृत्यञ्च वै त्यजेत्(1)

153.016

:न्
1 नृत्यञ्च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. , ट.. च । सायं
प्रातश्चेत्यादिः, नृत्यञ्च वै त्यजेदित्यन्तः पाठः ज.. पुस्तके
नास्ति
:प् 121
हिंसाम्परापवादं च अश्लीलं च विशेषतः ।अप्_153.016अब्।
दण्डादि धारयेन्नष्टमप्सु क्षिप्त्वान्यधारणं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc