अग्नि पुराण · अध्याय 152
:ए इत्य् आग्नेये महापुराणे वर्णान्तरधर्मा
नामैकपञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {152}
:श् अथ द्विपञ्चाशदधिकशततमो ऽध्यायः
गृहस्थवृत्तिः
पुष्कर उवाच
आजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।अप्_152.001अब्।
क्षत्रविट्शूद्रधर्मेण जीवेन्नैव तु शूद्रजात्
कृषिबाणिज्यगोरक्ष्यं कुशीदञ्च द्विजश् चरेत् ।अप्_152.002अब्।
गोरसं गुडलवणलाक्षामांसानि वर्जयेत्
:न्
1 श्रीजीवनञ्च तत्र स्यात् प्रोक्तमिति ग.. , घ.. , ङ.. , ञ.. च
:प् 119
भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् ।अप्_152.003अब्।
पुनन्ति खलु यज्ञेन कर्षका देवपूजनात्
हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनां ।अप्_152.004अब्।
चर्तुर्गवं नृशंसानां द्विगवं धर्मघातिनां
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।अप्_152.005अब्।
सत्यानृताभ्यामपिवा न स्ववृत्त्या कदा च न
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0