भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 151

151.001

:ए इत्य् आग्नेये महापुराणे मन्वन्तराणि नाम
पञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {151}
:श् अथैकपञ्चाशदधिकशततनो ऽध्यायः
वर्णेतरधर्माः
अग्निर् उवाच
मन्वादयो भुक्तिमुक्तिधर्मांश्चीर्त्वाप्नुवन्ति यान् ।अप्_151.001अब्।
प्रोचे परशुरामाय वरुणोक्तन्तु पुष्करः

151.002

पुष्कर उवाच
वर्णाश्रमेतराणान्ते धर्मान्वक्ष्यामि सर्वदान् ।अप्_151.002अब्।
मन्वादिभिर् निगदितान् वासुदेवादितुष्टिदान्

151.003

:प् 117
अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः ।अप्_151.003अब्।
तीर्थानुसरणं दानं ब्रह्मचर्यम्मत्सरः

151.004

देवद्विजातिशुश्रूषा गुरूणाञ्च भृगूत्तम ।अप्_151.004अब्।
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा

151.005

भक्तिश् च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता ।अप्_151.005अब्।
आनृशंष्यन्तितिक्षा च तथा चास्तिक्यमेव च

151.006

वर्णाश्रमाणां सामान्यं धर्माधर्मं(1) समीरितं ।अप्_151.006अब्।
यजनं याजनं दानं वेदाद्यध्यापनक्रिया

151.007

प्रतिग्रहञ्चाध्ययनं विप्रकर्माणि निर्दिशेत् ।अप्_151.007अब्।
दानमध्ययनञ्चैव यजनञ्च यथाविधिः

151.008

क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्तितं ।अप्_151.008अब्।
क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः

151.009

कृषिगोरक्ष्यवाणिज्यं वैश्यस्य परिकीर्तितं ।अप्_151.009अब्।
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ

151.010

मौञ्जीबन्धनतो जन्म विप्रादेश् च द्वितीयकं ।अप्_151.010अब्।
आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता

151.011

चण्डालो ब्राह्मणीपुत्रः शूद्राच्च प्रतिलोमतः ।अप्_151.011अब्।
सूतस्तु क्षत्रियाज्जातो वैश्याद्वै देवलस् तथा

151.012

पुक्कसः क्षत्रियापुत्रः शूद्रात् स्यात् प्रतिलोमजः ।अप्_151.012अब्।
मागधः स्यात्तथा वैश्याच्छूद्रादयोगवो भवेत्

151.013

वैश्यायां प्रतिलोमेभ्यः प्रतिलोमाः सहस्रशः ।अप्_151.013अब्।
:न्
1 धर्मरूपमिति ग.. , घ.. , ङ.. , ञ.. च
:प् 118
विवाहः सदृशैस्तेषां नोत्तमैर् नाधमैस् तथा

151.014

चण्डालकर्म निर्दिष्टं बध्यानां घातनं तथा ।अप्_151.014अब्।
स्त्रीजीवन्तु तद्रक्षाप्रोक्तं(1) वैदेहकस्य च

151.015

सूतानामश्वसारथ्यं पुक्कसानाञ्च व्याधता ।अप्_151.015अब्।
स्तुतिक्रिया माघ्धानां तथा चायोगशस्य च

151.016

रङ्गावतरणं प्रोक्तं तथा शिल्पैश् च जीवनं ।अप्_151.016अब्।
वहिर्ग्रामनिवासश् च मृतचेलस्य धारणं

151.017

न संस्पर्शस्तथैवान्यैश् चण्डालस्य विधीयते ।अप्_151.017अब्।
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽत्र यः कृतः

151.018

स्त्रीबालाद्युपपतो वा वाह्याणां सिद्धिकारणं ।अप्_151.018अब्।
सङ्करे जातयो ज्ञेयाः पितुर्मातुश् च कर्मतः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc