अग्नि पुराण · अध्याय 150
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे अयुतलक्षकोटिहोमो
नामोनपञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {150}
:श् अथ पञ्चाशदधिकशततमो ऽध्यायः
मन्वन्तराणि
अग्निर् उवाच
मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः ।अप्_150.001अब्।
अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः
और्वाद्याश् च सप्तर्षय इन्द्रश् चैव शतक्रतुः ।अप्_150.002अब्।
पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे
विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः ।अप्_150.003अब्।
चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तोतमो मनुः
सुशान्तिरिन्द्रो देवाश् च सुधामाद्या वशिष्ठजाः ।अप्_150.004अब्।
सप्तर्षयो ऽजाद्याः पुत्राश् चतुर्थस्तामसी मनुः
:प् 114
स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः ।अप्_150.005अब्।
ज्योतिर्धामादयो विप्रा नव ख्यातिमुखाः सुताः
रैवते वितथश्चेन्द्रो अमिताभास् तथा सुराः ।अप्_150.006अब्।
हिरण्यरोमाद्या मुनयो(1) बलबन्धादयः सुताः
मनोजवश्चाक्षुषे ऽथ इन्द्रः स्वात्यादयः सुराः ।अप्_150.007अब्।
सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः
विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः ।अप्_150.008अब्।
आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः
वशिष्ठः काश्यपो ऽथात्रिर्जमदग्निः सगोतमः ।अप्_150.009अब्।
विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं
इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् ।अप्_150.010अब्।
स्वायम्भुवे मानसो ऽभूदजितस्तदनन्तरे
सत्यो हरिर्देवदरो वैकुण्ठो वामनः क्रमात् ।अप्_150.011अब्।
छायाजः सूर्यपुत्रस्तु भविता चाष्टमो मनुः
पूर्वस्य च सवर्णो ऽसौ सावर्णिर्भविताष्टमः ।अप्_150.012अब्।
सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः
मुनयो बलिरिन्द्रश् च विरजप्रमुखाः सुताः ।अप्_150.013अब्।
नवमो दक्षसावर्णिः पाराद्याश् च तदा सुराः(2)
इन्द्रश् चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः ।अप्_150.014अब्।
धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः
सुखादयो देवगणास्तेषां शान्तिः शतक्रतुः ।अप्_150.015अब्।
:न्
1 हिरण्यरोमाद्या ऋषय इति ञ..
2 तथा सुरा इति छ..
:प् 115
हविष्याद्याश् च मुनयः सुक्षेत्राद्याश् च तत्सुताः
धर्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः ।अप्_150.016अब्।
गणेशश्चेन्द्रो नश् चराद्या मुनयः पुत्रकामयोः
सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः ।अप्_150.017अब्।
ऋतधामा सुरेन्द्रश् च हरिताद्याश् च देवताः
तपस्याद्याः सप्तर्षयः सुता वैदेववन्मुखाः ।अप्_150.018अब्।
मनुस्त्रयोदशो रौच्यः सूत्रामाणादयः सुराः
इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः ।अप्_150.019अब्।
निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः
मनुश् चतुर्दशो भौत्यः शुचिरिन्द्रो भविष्यति ।अप्_150.020अब्।
चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः
चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः ।अप्_150.021अब्।
प्रयर्तयन्ति देवांश् च भुवि सप्तर्षयो दिवः
देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते ।अप्_150.022अब्।
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश
मन्वाद्याश् च हरिर्वेदं द्वापरान्ते विभेद सः ।अप्_150.023अब्।
आद्यो वेदश् चतुष्पादः शतसाहस्रसम्मितः
एकश्चासीद् यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।अप्_150.024अब्।
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः
औद्गात्रं सामभिओश् चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ।अप्_150.025अब्।
प्रथमं व्यासशिष्यस्तु पैलो ह्य् ऋग्वेदपारगः
इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां ।अप्_150.026अब्।
बौध्यादिभ्यो ददौ सोपि चतुर्धा निजसंहितां
:प् 116
यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः ।अप्_150.027अब्।
वैशम्पायननामासौ व्यासशिष्यश् चकार वै
काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः ।अप्_150.028अब्।
सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः
सुमन्तुश् च सुकर्मा च एकैकां संहितां ततः ।अप्_150.029अब्।
गृह्णते च सुकर्माख्यः सहस्रं संहितां गुरुः
सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं ।अप्_150.030अब्।
शिष्यानध्यापयामास पैप्यलादान् सहस्रशः
पुराणसंहितां चक्रे सुतो व्यासप्रसादतः ॥31
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0