भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 149

149.001

:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे सङ्ग्रामविजयपूजा
नाम अष्टचत्वारिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {149}
:श् अथोनपञ्चाशदधिकशततमो ऽध्यायः ॥
लक्षकोटिहोमः
ईश्वर उवाच
होमाद्रणादौ विजयो राज्याप्तिर्विघ्ननाशनं ।अप्_149.001अब्।
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च

149.002

:न्
1 दीप्ता धूमेति झ..
2 विन्दु विन्दु समायुक्ता इति छ..
:प् 112
अन्तर्जले च गायत्रीं जप्त्वा षोडशधाचरेत् ।अप्_149.002अब्।
प्राणायामांश् च पूर्वाह्णे जुहुयात् पावके हविः

149.003

भैक्ष्ययावकभक्षी च फलमूलाशनो ऽपि वा ।अप्_149.003अब्।
क्षीरशक्तुघृताहार एकमाहारमाश्रयेत्

149.004

यावत्समाप्तिर्भवति लक्षहोमस्य पार्वति ।अप्_149.004अब्।
दक्षिणा लक्षहोमान्ते गावो वस्त्राणि काञ्चनं

149.005

सर्वोत्पातसमुत्पत्तौ पञ्चभिर्दशभिर्द्विजैः ।अप्_149.005अब्।
नास्ति लोके स उत्पातो यो ह्य् अनेन न शाम्यति

149.006

मङ्गल्यं परमं नास्ति यदस्मादतिरिच्यते ।अप्_149.006अब्।
कोटिहोमन्तु यो राजा कारयेत् पूर्ववद्द्विजैः

149.007

न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ।अप्_149.007अब्।
न तस्य मारको देशे व्याधिर्वा जायते क्वचित्

149.008

अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ।अप्_149.008अब्।
राक्षसाद्याश् च शाम्यन्ति सर्वे च रिपवो रणे

149.009

कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतिं तथा ।अप्_149.009अब्।
शतञ्चाथ सहस्रं वा यथेष्टाम्भूतिमाप्नुयात्

149.010

कोटिहोमन्तु यः कुर्याद् द्विजो भूपो ऽथवा च विट् ।अप्_149.010अब्।
यदिच्छेत् प्राप्नुयात्तत्तत् सशरीरो दिवं व्रजेत्

149.011

गायत्र्या ग्रहमन्त्रैर् वा कुष्माण्डीजातवेदसैः ।अप्_149.011अब्।
ऐन्द्रवारुणवायव्ययाम्याग्नेयैश् च वैष्णवैः

149.012

शाक्तेयैश् च शाम्भवैः सौरैर् मन्त्रैर् होमार्चनात्ततः ।अप्_149.012अब्।
अयुतेनाल्पसिद्धिः स्याल्लक्षहोमो ऽखिलार्तिनुत्

149.013

सर्वपीडादिनशाय कोटिहोमो ऽखिलार्थदः ।अप्_149.013अब्।
:प् 113
यवव्रीहितिलक्षीरघृतकुशप्रमातिकाः

149.014

पङ्कजोशीरविल्वाम्रदला होमे प्रकीर्तिताः ।अप्_149.014अब्।
अष्टहस्तप्रमाणेन कोटिहोमेषु खातकं

149.015

तस्मादर्धप्रमाणेन लक्षहोमे विधीयते ।अप्_149.015अब्।
होमो ऽयुतेन लक्षेण कोद्याज्याद्यैः प्रकीर्तितः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc