भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 15

15.001

:ए इत्य् आदिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशो
ऽध्यायः
% छप्तेर् {15}
:श् अथ पञ्चदशो ऽध्यायः
पाण्डवचरितवर्णनम्
अग्निर् उवाच
युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् ।अप्_15.001अब्।
धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विज

15.002

विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः ।अप्_15.002अब्।
एवं विष्णुर्भुवो भारमहरद्दानवादिकम्

15.003

धर्मायाधर्मनाशाय निमित्तीकृत्य पाण्डवान् ।अप्_15.003अब्।
स विप्रशापव्याजेन मुषलेनाहरत् कुलम्

15.004

यादवानां भारकरं वज्रं राज्येभ्यषेचयत् ।अप्_15.004अब्।
देवदेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः

15.005

इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः ।अप्_15.005अब्।
बलभद्रोनन्तमूर्तिः पातालस्वर्गमीयिवान्

15.006

अविनाशी हरिर्देवो ध्यानिभिर्ध्येय एव सः ।अप्_15.006अब्।
विना तं द्वारकास्थानं प्लावयामास सागरः

15.007

संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः ।अप्_15.007अब्।
स्त्रियोष्टावक्रशापेन भार्या विष्णोश् च याः स्थिताः

15.008

पुनस्तच्छापतो नीता गोपालैर् लगुडायुधैः ।अप्_15.008अब्।
अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह

15.009

व्यासेनाश्वासितो मेने बलं मे कृष्णसन्निधौ ।अप्_15.009अब्।
:न्
1 मौषलेनेति ख, चिह्नितपुस्तकपाठः
2 स्वर्गमाप्नुयादिति ख, ग, चिह्नितपुस्तकद्वयपाठः
:प् 38
हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत्

15.010

युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा ।अप्_15.010अब्।
तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः

15.011

विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा ।अप्_15.011अब्।
तच् छ्रुत्वा धर्मराजस्तु राज्ये स्थाप्य परीक्षितम्

15.012

प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह ।अप्_15.012अब्।
संसारानित्यतां ज्ञात्वा जपन्नष्टशतं हरेः

15.013

महापथे तु पतिता द्रौपदी सहदेवकः ।अप्_15.013अब्।
नकुलः फाल्गुनो भीमो राजा शोकपरायणः

15.014

इन्द्रानीतरथारूढः सानुजः स्वर्गमाप्तवान् ।अप्_15.014अब्।
दृष्ट्वा दुर्योधनादींश् च वासुदेवं च हर्षितः
एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc