भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 14

14.001

:ए इत्य् आदिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशो
ऽध्यायः
% छप्तेर् {14}
:श् अथ चतुर्दशो ऽध्यायः
कुरुपाण्डवसङ्ग्रामवर्णनम्
अग्निर् उवाच
यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः ।अप्_14.001अब्।
भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति

14.002

पार्थं ह्य् उवाच भगवान्नशोच्या भीष्ममुख्यकाः ।अप्_14.002अब्।
शरीराणि विनाशीनि न शरीरी विनश्यति

14.003

:न्
1 विदुरान्वित इति ख, चिह्नितपुस्तकपाठः
:प् 35
अयमात्मा परं ब्रह्म अहं ब्रह्मस्मि विद्धि तम् ।अप्_14.003अब्।
सिद्ध्यसिद्ध्योः समो योगी राजधर्मं प्रपालय

14.004

कृष्णोक्तोथार्जुनो ऽयुध्यद्रथस्थो वाद्यशब्दवान् ।अप्_14.004अब्।
भीष्मः सेनापतिरभूदादौ दौर्योधने बले

14.005

पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।अप्_14.005अब्।
धार्तराष्ट्राः पाण्डवांश् च जघ्नुर्युद्धे सभीष्मकाः

14.006

धार्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे ।अप्_14.006अब्।
देवासुरसं युद्धं कुरुपाण्दवसेनयोः

14.007

बभूव स्वस्थदेवानां पश्यतां प्रीतिवर्धनं ।अप्_14.007अब्।
भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत्

14.008

दशमे ह्य् अर्जुनो वाणैर् भीष्मं वीरं ववर्ष ह ।अप्_14.008अब्।
शिखण्डी द्रुपदोक्तो ऽस्त्रैर् ववर्ष जलदो यथा

14.009

हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम्(1) ।अप्_14.009अब्।
भीष्मः स्वच्छन्दमृत्युश् च युद्धमार्गं प्रदर्श्य च

14.010

वसूक्तो वसुलोकाय शरशय्यागतः स्थितः ।अप्_14.010अब्।
उत्तरायणमीक्षंश् च ध्यायन् विष्णुं स्तवन् स्थितः

14.011

दुर्योधने तु शोकार्ते द्रोणः सेनापतिस्त्वभुत् ।अप्_14.011अब्।
पाण्दवे हर्षिते सैन्ये ढृष्टद्युम्नश् चमूपतिः

14.012

तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् ।अप्_14.012अब्।
विराटद्रुपदाद्याश् च निमग्ना द्रोणसागरे

14.013

दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी ।अप्_14.013अब्।
धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ

14.014

हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् ।अप्_14.014अब्।
धृष्टद्युम्नशराक्रान्तः पतितः स महीतले

14.015

:न्
1 अन्योन्यास्त्रनिपीडितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः
:प् 36
पञ्चमेहनि दुर्धर्षः सर्वक्षत्रं प्रमथ्य च ।अप्_14.015अब्।
दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत्

14.016

अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह ।अप्_14.016अब्।
शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम्

14.017

कर्णार्जुनाख्ये सङ्ग्रामे कर्णोरीनबधीच्छरैः ।अप्_14.017अब्।
द्वितीयाहनि कर्णस्तु अर्जुनेन निपातितः

14.018

शल्यो दिनार्धं युयुधे ह्य् अबधीत्तं युधिष्ठिरः ।अप्_14.018अब्।
युयुधे भीमसेनेन हतसैन्यः सुयोधनः

14.019

बहून् हत्वा नरादींश् च भीमसेनमथाब्रवीत् ।अप्_14.019अब्।
गदया प्रहरन्तं तु भीमस्तन्तु व्यपातयत्

14.020

गदयान्यानुजांस्तस्य तस्मिन्नष्टादेशेहनि ।अप्_14.020अब्।
रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत्

14.021

अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः ।अप्_14.021अब्।
द्रौपदेयान् सपाञ्चालान् धृष्टद्युम्नञ्च सो ऽबधीत्

14.022

पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः ।अप्_14.022अब्।
शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च

14.023

अश्वत्थामास्त्रनिर्दग्धं जीवयामास वै हरिः ।अप्_14.023अब्।
उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः

14.024

कृतवर्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् ।अप्_14.024अब्।
पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे

14.025

स्त्रियश्चार्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः ।अप्_14.025अब्।
संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः

14.026

भीष्माच्छान्तनवाच्छ्रुत्वा धर्मान् सर्वांश् च शान्तिदाम् ।अप्_14.026अब्।
राजधर्मान्मोक्षधर्मान्दानधर्मान् नृपो ऽभवत्

14.027

अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्दनः ।अप्_14.027अब्।
:प् 37
श्रुत्वार्जुनान्मौषलेयं(1) यादवानाञ्च सङ्क्षयम् ।अप्_14.027च्द्।
राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् (2)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc