भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 148

148.001

ए: इत्य् आग्नेये महापुराणे युद्धजयार्णवे त्वरितापूजादिर्नाम
सप्तचत्वारिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {148}
:श् अथ अष्टचत्वारिंशदधिकशततमो ऽध्यायः
सङ्ग्रमविजयपूजा
ईश्वर उवाच । ओं डे ख ख्यां सूर्याय सङ्ग्रामविजयाय
नमः । ह्रां ह्रों ह्रूं ह्रें ह्रौं ह्रः
षडङ्गानि तु सूर्यस्य सङ्ग्रामे जयदस्य हि ।अप्_148.001अब्।
ओं हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ओं
ह्रों क्रें
प्रभूतं विमलं सारसाराध्यं परमं मुखं

148.002

धर्मज्ञानञ्च वैराग्यमैश्वर्याद्यष्टकं यजेत् ।अप्_148.002अब्।
अनन्तासनं सिंहासनं पद्मासनमतः परं

148.003

:प् 111
कर्णिकाकेशरण्येव सूर्यसोमाग्निमण्डलं ।अप्_148.003अब्।
दीप्ता सूक्ष्मा(1) जया भद्रा विभूतिर्विमला तथा

148.004

अमोघा विद्युता पूज्या नवमी सर्वतोमुखी ।अप्_148.004अब्।
सत्त्वं रजस्तमश् चैव प्रकृतिं पुरुषं तथा

148.005

आत्मानञ्चान्तरात्मानं परमात्मानमर्चयेत् ।अप्_148.005अब्।
सर्वे विन्दुसमायुक्ता मायानिलसमन्विताः

148.006

उषा प्रभा च सन्ध्या च साया माया बलान्विता ।अप्_148.006अब्।
विन्दुविष्णुसमायुक्ता(2) द्वारपालास् तथाष्टकं

148.007

सूर्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः ।अप्_148.007अब्।
पूजया जपहोमाद्यैर् युद्धादौ विजयो भवेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc