भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 144

144.001

:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे कुब्जिकाक्रमपूजा नाम
त्रिचत्वारिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {144}
:श् अथ चतुश् चत्वारिंशदधिकशततमो ऽध्यायः
कुब्जिकापूजा
ईश्वर उवाच
श्रीमतीं कुब्जिकां वक्ष्ये धर्मार्थादिजयप्रदां ।अप्_144.001अब्।
पूजयेन्मूलमन्त्रेण परिवारयुतेन वा

144.002

ओं ऐं ह्रौं श्रीं खैं ह्रें हसक्षमलचवयम्भगवति
अम्बिके ह्रां ह्रीं क्ष्रीं क्षौं क्ष्रूं क्रीं कुब्जिके
ह्रां ओं ङञनणमे अघोरमुखि व्रां छ्रां
:न्
1 खं मृत्यौ वुञ्चनामाख्य इति ज..
:प् 97
छीं किलि 2 क्षौं विच्चे ख्यों श्रीं क्रों ओं ह्रों ऐं
वज्रकुब्जिनि(1) स्त्रीं त्रैलोक्यकर्षिणि ह्रीं कामाङ्गद्राविणि
ह्रीं स्त्रीं महाक्षोभकारिणि ऐं ह्रीं क्ष्रीं ऐं
ह्रों श्रीं फें क्षौं नमो भगवति क्ष्रौं कुब्जिके ह्रों
ह्रों क्रैं ङञणनमे अघोरमुखि छ्रांछां विच्चे ओं किलि
2
कृत्वा कराङ्गन्यासञ्च सन्ध्यावन्दनमाचरेत् ।अप्_144.002अब्।
वामा ज्येष्ठा तथा रौद्रीं सन्ध्यात्रयमनुक्रमात्

144.003

कुलवागीशि विद्महे महाकालीति धीमहि । तन्नः कौली
प्रचोदयात्
मन्त्राः पञ्च प्रणवाद्याः पादुकां पूजयामि च ।अप्_144.003अब्।
मध्ये नाम चतुर्थ्यन्तं द्विनवात्मकवीजकाः

144.004

नमोन्ता वाथ षष्ट्या तु सर्वे ज्ञेया वदामि तान् ।अप्_144.004अब्।
कौलीशनाथः सुकला जन्मतः कुब्जिका ततः

144.005

श्रीकण्ठनाथः कौलेशो गगनानन्दनाथकः ।अप्_144.005अब्।
चटुला देवी मैत्रीशी कराली तूर्णनाथकः

144.006

अतलदेवी श्रीचन्द्रा देवीत्यन्तास्ततस्त्विमे ।अप्_144.006अब्।
भगात्मपुङ्गणदेवमोहनीं पादुकां यजेत्

144.007

अतीतभुवनानन्दरत्नाढ्यां पादुकां यजेत् ।अप्_144.007अब्।
ब्रह्मज्ञानाथ कमला परमा विद्यया सह

144.008

विद्यादेवीगुरुशुद्धिस्त्रिशुद्धिं प्रवदामि ते ।अप्_144.008अब्।
गगनश् चटुली चात्मा पद्मानन्दो मणिः कला

144.009

:न्
1 वह्निकुब्जिनि इति ख.. , छ.. च
:प् 98
कमलो माणिक्यकण्ठो गगनः कुमुदस्ततः ।अप्_144.009अब्।
श्रीपद्मो भैरवानन्दो देवः कमल इत्य् अतः

144.010

शिवो भवो ऽथ कृष्णश् च नवसिद्धाश् च षोडश ।अप्_144.010अब्।
चन्द्रपूरो ऽथ गुल्मश् च शुभः कामो ऽतिमुक्तकः(1)

144.011

कण्ठो वीरः(2) प्रयोगो ऽथ कुशलो देवभोगकः ।अप्_144.011अब्।
विश्वदेवः खड्गदेवो रुद्रो धातासिरेव च

144.012

मुद्रास्फीटी वंशपूरो भोजः षोडश सिद्धकाः ।अप्_144.012अब्।
समयान्यस्तु देहस्तु षोढान्यासेन यन्त्रितः

144.013

प्रक्षिप्य मण्डले पुष्पं मण्डलान्यथ पूजयेत् ।अप्_144.013अब्।
अनन्तञ्च महान्तञ्च सर्वदा शिवपादुकां

144.014

महाव्याप्तिश् च शून्यञ्च पञ्चतत्त्वात्ममण्डलं ।अप्_144.014अब्।
श्रीकण्ठनाथपादुकां शङ्करानन्तकौ यजेत्

144.015

सदाशिवः पिङ्गलश् च भृग्वानन्दश् च नाथकः ।अप्_144.015अब्।
लाङ्गूलानन्दसंवर्तौ मण्डलस्थानके यजेत्

144.016

नैरृत्ये श्रीमहकालः पिनाकी च महेन्द्रकः ।अप्_144.016अब्।
खड्गो भुजङ्गो वाणश् च अघासिः शब्दको वशः

144.017

आज्ञारूपो नन्दरूपो बलिन्दत्वा क्रमं यजेत् ।अप्_144.017अब्।
ह्रीं खं खं हूं सौं वटुकाय अरु 2 अर्घं पुष्पं
धूपं दीपंगन्धं बलिं पूजां गृह्ण 2 नमस्तुभ्यं ।
ओं ह्रां ह्रीं ह्रूं क्षें क्षेत्रपालाय अवतर 2
महाकपिलजटाभार भास्वरत्रिनेत्रज्वालामुख एह्येहि
गन्ह्दपुष्पबलिपूजां गृह्ण 2 खः खः ओं कः ओं
लः ओं महाडामराधिपतये(3) स्वाहा
:न्
1 कामो ऽथ मुक्तक इति ज.. , छ.. , ञ.. च
2 वटो वीर इति ज.. , छ.. च
3 प्रमथाधिपतये इति ङ.. । महामायाधिपतये इति ज..
:प् 99
बलिशेषे ऽथ यजेत् ह्रीं ह्रूं हां श्रीं वै त्रिकूटकं

144.018

वामे च दक्षिणे ह्य् अग्रे याम्ये निशानाथपादुकाः ।अप्_144.018अब्।
दक्षे तमोरिनाथस्य हग्रे कालानलस्य च

144.019

उड्डियाणं जालन्धरं पूर्णं वै कामरुपकं ।अप्_144.019अब्।
गगनानन्ददेवञ्च स्वर्गानन्दं सवर्गकं(1)

144.020

परमानन्ददेवञ्च(2) सत्यानन्दस्य पादुकां(3) ।अप्_144.020अब्।
नागानन्दञ्च वर्गाख्यमुक्तान्ते रत्नपञ्चकं

144.021

सौम्ये शिवे यजेत् षट्कं सुरनाथस्य पादुकां ।अप्_144.021अब्।
श्रीमत्समयकोटीशं विद्याकोटीश्वरं यजेत्

144.022

कोटीशं विन्दुकोटीशं सिद्धकोटीश्वरन्तथा ।अप्_144.022अब्।
सिद्धचतुष्कमाग्नेय्यां अमरीशेश्वरं यजेत्

144.023

चक्रीशनाथं कुरुङ्गेशं वृत्रेशञ्चन्द्रनाथकं(4) ।अप्_144.023अब्।
यजेद्गन्धादिभिश् चैतान् याम्ये विमलपञ्चकं

144.024

यजेदनादिविमलं सर्वज्ञविमलं ततः ।अप्_144.024अब्।
यजेद्योगीशविमलं सिद्धाख्यं समयाख्यकं

144.025

नैऋत्ये चतुरो देवान्(5) जयेत् कन्दर्पनाथकं ।अप्_144.025अब्।
पूर्वाः शक्तीश् च सर्वाश् च(6) कुब्जिकापादुकां यजेत्

144.026

:न्
1 स्वर्गानन्दञ्च देवकमिति घ.. , ञ.. च
2 पन्नगानन्ददेवञ्चेति ञ.. । पवनानन्ददेवञ्चेति ज..
3 मर्त्यानन्दस्य पादुकामिति ख.. , ग.. , ङ.. , झ.. , ज.. च
4 भूतोशं मन्त्रनायकमिति ज.. । भूतीशं मन्त्रनायकमिति
ञ..
5 चतुरो वेदानिति ख.. , छ.. , ज.. च
6 पूर्वान् सशक्तीन् सर्वांश्चेति ज.. , ञ.. च
:प् 100
नवातम्केन मन्त्रेण पञ्चप्रणवकेन वा ।अप्_144.026अब्।
सहस्राक्षमनवद्यं विष्णुं शिवं सदा यजेत्(1)

144.027

पूर्वाच्छिवान्तं ब्रह्मादि ब्रह्माणी च महेश्वरी ।अप्_144.027अब्।
कौमारी वैष्णवी चैव वाराही शक्रशक्तिका

144.028

चामुण्डा च महालक्ष्मीः पूर्वादीशान्तमर्चयेत् ।अप्_144.028अब्।
डाकिनी राकिनी पूज्या लाकिनी काकिनी तथा

144.029

शाकिनी याकिनी पूज्या वायव्यादुग्रषट्षु च ।अप्_144.029अब्।
यजेद् ध्यात्वा ततो देवीं द्वात्रिंशद्वर्णकात्मकां

144.030

पञ्चप्रणवकेनापि ह्रीं कारेणाथवा यजेत् ।अप्_144.030अब्।
नीलोत्पलदलश्यामा षड्वक्त्रा(2) षट्प्रकारिका

144.031

चिच्छक्तिक्तिरष्टादशाख्या बाहुद्वादशसंयुता ।अप्_144.031अब्।
सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता

144.032

कुलकोटिसहस्राढ्या कर्कोटो मेखलास्थितः ।अप्_144.032अब्।
तक्षकेणोपरिष्टाच्च गले हारश् च वासुकिः

144.033

कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलह्ः ।अप्_144.033अब्।
भ्रुवोः पद्मो मकापद्मो वामे नागः कपालकः

144.034

अक्षसूत्रञ्च खट्वाङ्गं शङ्कं पुस्तञ्च दक्षिणे ।अप्_144.034अब्।
त्रिशूलन्तदर्पणं खड्गं रत्नमालाङ्कुशन्धनुः(3)

144.035

श्वेतमूर्ध्वमुखन्देव्या ऊर्ध्वश्वेतन्तथापरं ।अप्_144.035अब्।
पूर्वास्यं पाण्डरं क्रोधि दक्षिणं कृष्णवर्णकं

144.036

:न्
1 सदाशिवं स्वयं यजेदिति ङ.. , छ.. , ज.. च
2 षड्वर्णेति ज..
3 वनमालङ्कुशं धनुरिति घ.. , ङ.. च
:प् 101
हिमकुन्देन्दभं सौम्यं ब्रह्मा पादतले स्थितः ।अप्_144.036अब्।
विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः

144.037

सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।अप्_144.037अब्।
आघूर्णिता कुब्जिकैवन्ध्येया पूजादिकर्मसु

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc