भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 145

145.001

:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे कुब्जिकापूजा नाम चतुश्
चत्वारिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {145}
:श् अथ पञ्चचत्वारिंशदधिकशततमो ऽध्यायः
मालिनीनानामन्त्राः
ईश्वर उवाच
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।अप्_145.001अब्।
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः

145.002

शाम्भवे शब्दराशिः षट्षोडशग्रन्थिरूपवान्(1) ।अप्_145.002अब्।
त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः

145.003

चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् ।अप्_145.003अब्।
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः

145.005

शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ।अप्_145.004अब्।
:न्
1 षोडशप्रतिरूपवानिति झ..
:प् 102
अधोर्यष्टकरूपो ऽन्यो द्वादशाङ्गश् चतुर्थकः ।अप्_145.004अब्।
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(1) ।अप्_145.005अब्।
क्रीं ह्रौं क्लीं श्रीं क्रूं फट् त्रयं स्यात्तुर्याख्यंसर्वसाधकं(2)

145.006

मालिन्या नादिकान्तं स्यात् नादिनी च शिखा स्मृता ।अप्_145.006अब्।
अग्रसेनी(3) शिरसि स्यात् शिरोमालानिवृत्तिः शः

145.007

ट शान्तिश् च शिरो भूयाच् चामुण्डा च त्रिनेत्रगा ।अप्_145.007अब्।
ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी

145.008

न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ ।अप्_145.008अब्।
ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता

145.009

क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी ।अप्_145.009अब्।
ग शिवा ऊर्ध्वदंष्ट्रा स्याद् घ घोरा वामदंष्ट्रिका

145.010

उ शिखा दन्तविन्यासा ई माया जिह्वया स्मृता ।अप्_145.010अब्।
अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी

145.011

भ भीषणी दक्षस्कन्धे वायुवेगा म वामके ।अप्_145.011अब्।
डनामा दक्षबाहौ तु ढ वामे च विनायका

145.012

प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके ।अप्_145.012अब्।
अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे

145.013

ट कपालिनी कपालं शूलदण्डे त दीपनी ।अप्_145.013अब्।
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(4) स्मृता

145.014

:न्
1 शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति
ञ..
2 फटत्रयं स्यात् तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च
3 खश्वसनीति ख.. , छ.. च
4 पावनीति ज.. , ञ.. च
:प् 103
जीवे श परमाख्या स्याद् ह प्राणे चाम्बिका स्मृता ।अप्_145.014अब्।
दक्षस्तने छ शरीरा न वामे पूतना स्तने

145.015

अ स्तनक्षीरा आ मोटो लम्बोदर्युदरे च थ ।अप्_145.015अब्।
नाभौ संहारिका क्ष स्यान् महाकाली नितम्बम

145.016

गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका ।अप्_145.016अब्।
उरुद्वये त तारास्याह ज्ञाना दक्षजानुनि

145.017

वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा ।अप्_145.017अब्।
ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे

145.018

फ फेत्कारी वामपादे नवात्मा मालिनी मनुः ।अप्_145.018अब्।
अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः

145.019

इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्तिस्तु वामके ।अप्_145.019अब्।
उ दक्षकर्णे ऽमरौश ऊ कर्णेर्घांशको ऽपरे

145.020

ऋ भाषभूतिर्नासाग्रे वामनासा तिथीश ऋ ।अप्_145.020अब्।
ऌ स्थाणुर्दक्षगण्डे स्याद्वामगण्डे हरश् च ॡ

145.021

कटीशो दन्तपङ्क्तावे भूतीशश्चोर्ध्वदन्त ऐ ।अप्_145.021अब्।
सद्योजात ओ अधरे ऊर्ध्वौष्ठे ऽनुग्रहीश औ

145.022

अं क्रूरो घाटकायां स्यादः महासेनजिह्वया ।अप्_145.022अब्।
क क्रोधीशो दक्षस्कन्धे खश् चण्डीशश् च बाहुषु

145.023

पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्गणे ।अप्_145.023अब्।
ङ एकपादश्चाङ्गुल्यो तामस्कन्धे च कूर्मकः

145.024

छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे ।अप्_145.024अब्।
झ राजसः कङ्कणगः ञः सर्वकामदो ऽङ्गुली

145.025

ट स्प्मेशो नितम्बे स्याद्दक्ष ऊरुर्ठ लाङ्गली ।अप्_145.025अब्।
:प् 104
ड दारुको दक्षजानौ जङ्घा ढो ऽर्धजलेश्वरः

145.026

ण उमाकान्तको ऽङ्गुल्यस्त आषाढो नितम्बके ।अप्_145.026अब्।
थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि

145.027

ध मीनो वामजङ्घायान्न मेषश् चरणाङ्गुली ।अप्_145.027अब्।
प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः

145.028

ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः ।अप्_145.028अब्।
म महाकालो हृदये य वाणीशस्त्वविस्मृतः(1)

145.029

र रक्ते स्याद्भुजङ्गे शो ल पिनाकी च मांसके ।अप्_145.029अब्।
व खड्गीशः स्वात्मनि स्याद्वकश्चाथिनि शः स्मृतः

145.030

ष श्वेतश् चैव मज्जायां स भृगुः शुक्रधातुके ।अप्_145.030अब्।
प्राणे हो नकुलीशः स्यात् क्ष संवर्तश् च कोषगः

145.031

रुद्रशक्तीः प्रपूज्य ह्रींवीजेनाखिलमाप्नुयात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc