भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 143

143.001

:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे मन्त्रौषधादिर्नाम हि
चत्वारिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {143}
:श् अथ त्रिचत्वारिंशदधिकशततमो ऽध्यायः
कुब्जिकापूजा
ईश्वर उवाच
कुब्जिकाक्रमपूजाञ्च(1) वक्ष्ये सर्वार्थसाधनीं ।अप्_143.001अब्।
यया जिताः सुरा देवैः शस्त्राद्यैर् आज्यसंयुतैः

143.002

:न्
1 कुब्जिकाचक्रपूजाच्चेति ख.. , छ.. च
:प् 95
मायाबीजं च गुह्याङ्गे षट्कमस्त्रं करे न्यसेत् ।अप्_143.002अब्।
काली कालीति हृदयं दुष्टचाण्डालिका शिरः

143.003

ह्रौं स्फें ह स ख क छ ड ओं कारो भैरवः शिखा ।अप्_143.003अब्।
भेलखी कवचं दूती नेत्राख्या रक्तचण्डिका

143.004

ततो गुह्यक्रुञ्जिकास्त्रं मण्डले स्थानके यजेत् ।अप्_143.004अब्।
अग्नौ कूर्चशिरो रुद्रे नैरृत्ये ऽथ शिखानिले

143.005

कवचम्मध्यतो नेत्रं अस्त्रन्दिक्षु च मण्डले ।अप्_143.005अब्।
द्वात्रिंशता कर्णिकायां स्रोंहसक्षमलनववषडसचात्ममन्त्रवीजकं

143.006

ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा ।अप्_143.006अब्।
वाराही चैव माहेन्द्री चामुण्डा चण्डिकेन्द्रकात्

143.007

यजेद्रवलकसहान् शिवेन्दाग्नियमे ऽद्निपे ।अप्_143.007अब्।
जले तु कुसुममालामद्रिकाणां च पञ्चकं

143.008

जालन्धरं पूर्णगिरिं कामरूपं क्रमाद्यजेत् ।अप्_143.008अब्।
मरुदेशाग्निनैरृत्ये मध्ये वै वज्रकुब्जिकां

143.009

अनादिविमलः पूज्यः सर्वज्ञविमलस्तुतः ।अप्_143.009अब्।
प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः

143.010

समयाख्यो ऽथ विमल एतद्विमलपञ्चकं ।अप्_143.010अब्।
मरुदीशाननैरृत्ये वह्नौ चोत्तरशृङ्गके

143.011

कुब्जार्थं खिंखिनी षष्ठा सोपन्ना सुस्थिरा तथा ।अप्_143.011अब्।
रत्नसुन्दरी चैशाने शृङ्गे चाष्टादिनाथकाः

143.012

मित्र ओडीशषष्ठ्याख्यौ वर्षा अग्न्यम्बुपे ऽनिले ।अप्_143.012अब्।
भवेद्गगनरत्नं स्याच्चाप्ये कवचरत्नकं

143.013

:प् 96
ब्रुं मर्त्यः पञ्चनामाख्यो(1) मरुदीशानवह्निगः ।अप्_143.013अब्।
याम्याग्नेये पञ्चरत्नं ज्येष्ठा रौद्री तथान्तिका

143.014

तिस्रो ह्य् आसां महावृद्धाः पञ्चप्रणवतो ऽखिलाः ।अप्_143.014अब्।
सप्तविंशत्यष्टविंशभेदात् सम्पूजनं द्विधा

143.015

ओं ऐं गूं क्रमगणपतिं प्रणवं वटुकं यजेत् ।अप्_143.015अब्।
चतुरस्रे मण्डले च दक्षिणे गणपं यजेत्

143.016

वामे च वटुकं कोणे गुरून् सोडशनाथकान् ।अप्_143.016अब्।
वायव्यादौ चाष्ट दश प्रतिषट्कोणके ततः

143.017

ब्रह्माद्याश्चाष्ट परितस्तन्मध्ये च नवात्मकः ।अप्_143.017अब्।
कुब्जिका कुलटा चैव क्रमपूजा तु सर्वदा

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc