अग्नि पुराण · अध्याय 141
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे षोडशपदका नाम
चत्वारिंशदधिकशततमो ऽध्यायः ॥
:न्
1 त्रिदशाक्ष्यन्धिमनुभिर्ध्वजलेपादिति ग.. , घ.. , ङ.. , छ.. च
:प् 90
% छप्तेर् {141}
:श् अथैकचत्वारिंशदधिकशततमो ऽध्यायः
षट्त्रिंशत्पदकज्ञानं
ईश्वर उवाच
षट्त्रिंशत्पदसंस्थानामोषधीनां वदे फलं ।अप्_141.001अब्।
अमरीकरणं नृणां ब्रह्मरुद्रेन्द्रसेवितं
हरीतक्यक्ष्यधात्राश् च मरीचम्पिप्पलीशिफा ।अप्_141.002अब्।
वह्निः शुण्ठी पिप्पली च गुडूचीवचनिम्बकाः(1)
वासकः शतमूली च सैन्धवं सिन्धुवारकं ।अप्_141.003अब्।
कण्टकारी गोक्षुरका विल्वम्पौनर्नवं बला
एरण्डमुण्डी रुचको भृङ्गः क्षारो ऽथ पर्पटः ।अप्_141.004अब्।
धन्याको जीरकश् चैव शतपुष्यी जवानिका
विडङ्गः खदिरश् चैव कृतमालो हरिद्रया ।अप्_141.005अब्।
वचा सिद्धार्थ एतानि षट्त्रिंशत्पदगानि हि
क्रमादेकादिसञ्ज्ञानि ह्य् औपधानि महान्ति हि ।अप्_141.006अब्।
सर्वरोगहराणि स्युरमरीकरणानि च
बलीपलितभेत्तॄणि(2) सर्वकोष्ठगतानि तु ।अप्_141.007अब्।
एषां चूर्णञ्च वटिका रसेन परिभाविता
अवलेहः कषायो वा मोदको गुडखण्डकः ।अप्_141.008अब्।
:न्
1 चव्यनिम्बका इति ज.. , झ.. च
2 बलीपलितभेदीनीति छ..
:प् 91
मधुतो धृततो वापि घृतन्तैलमथापि वा
सर्वात्मनोपयुक्तं हि मृतसञ्जीवनम्भवेत् ।अप्_141.009अब्।
कर्षार्धं कर्षमेकं वा पलार्धं पलमेककं
यथेष्टाचारनिरतो(1) जीवेद्वर्षशतत्रयं ।अप्_141.010अब्।
मृतसञ्जीवनीकल्पे योगो नास्मात् परो ऽस्ति हि
प्रथमान्नवकाद्योगात् सर्वरोगैः प्रमुच्यते ।अप्_141.011अब्।
द्वितीयाच्च तृतीयाच्च चतुर्थान्मुच्यते रुजः
एवं षट्काच्च प्रथमाद् द्वितीयाच्च तृतीयतः ।अप्_141.012अब्।
चतुर्थात्पञ्चमात् षष्ठात्तथा नवचतुष्कतः
एकदित्रिचतुःपञ्चषट्सप्ताष्टमतो ऽनिलात् ।अप्_141.013अब्।
अग्निभास्करषड्विंशसप्तविंशैश् च पित्ततः
वाणर्तुशैलवसुभिस्तिथिभिर्मुच्यते कफात् ।अप्_141.014अब्।
वेदाग्निभिर्बाणगुणैः षद्गुणैः स्याद्वशे धृते
ग्रहादिग्रहणान्तैश् च सर्वैर् एव विमुच्यते ।अप्_141.015अब्।
एकद्वित्रिरसैः शैलैर् वसुग्रहशिवैः क्रमात्
द्वात्रिंशत्तिथिसूर्यैश् च नात्र कार्या विचारणा ।अप्_141.016अब्।
षट्त्रिंशत्पदकज्ञानं न देयं यस्य कस्य चित्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0