अग्नि पुराण · अध्याय 142
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे
षट्त्रिंशत्पदकज्ञानं नाम एकचत्वारिंशदधिकशततमो
ऽध्यायः ॥
:न्
1 यथेच्छाचारनिरत इति ज..
:प् 92
% छप्तेर् {142}
:श् अथ द्विचत्वारिंशदधिकशततमो ऽध्यायः
मन्त्रोषधादिः
ईश्वर उवाच
मन्त्रौषधानि चक्राणि(1) वक्ष्ये सर्वप्रदानि च ।अप्_142.001अब्।
चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश् चतुर्गुणाः
नाम्ना हृते भवेच्छेषद्यौरो ऽथ जातकं वदे ।अप्_142.002अब्।
प्रश्ने ये विषमा वर्णास्ते गर्भे पुत्रजन्मदाः
नामवर्णैः समैः काणो वामे ऽक्ष्णि विषमैः पुनः ।अप्_142.003अब्।
दक्षिणाक्षि भवेत् काणं स्त्रीपुन्नामाक्षरस्य च
मात्रावर्णाश् चतुर्निघना वर्णपिण्डे गुणे कृते ।अप्_142.004अब्।
समे स्त्री विषमे ना स्याद्विशेषे च(2) मृतिः स्त्रियाः
प्रथमं रूपशून्ये ऽथ प्रथमं म्रियते पुमान् ।अप्_142.005अब्।
प्रश्नं सूक्ष्माक्षरैर् गृह्य द्रव्यैर् भागे ऽखिले मतम्
शनिचक्रं प्रवक्ष्यामि तस्य दृष्टिं परित्यजेत् ।अप्_142.006अब्।
राशिस्थः सप्तमे दृष्टिश् चतुर्दशशतेर्धिका
एकद्व्यष्टद्वादशमः पाददृष्टिश् च तं त्यजेत् ।अप्_142.007अब्।
दिनाधिपः प्रहरभाक् शेषा यामार्धभागिनः(3)
:न्
1 मन्त्रौषधादिचक्राणीति घ.. , ञ.. च
2 विशेषेणेति ख..
3 यामार्धभोगिन इति क.. , ग.. , ङ.. , ज.. च
:प् 93
शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते ।अप्_142.008अब्।
रवौ पूर्वे ऽनिले मन्दे गुरौ याम्ये ऽनले भृगौ
अग्नौ कुजे भवेत् सोम्ये स्थिते राहुर्बुधे सदा ।अप्_142.009अब्।
फणिराहुस्तु प्रहरमैशे वह्नौ च राक्षसे
वायौ संवेष्टयित्वा च शत्रुं हन्तीशसन्मुखं ।अप्_142.010अब्।
तिथिराहुं प्रवक्ष्यामि पूर्णिमाग्नेयगोचरे
अमावास्या वायवे च राहुः सम्मुखशत्रुहा ।अप्_142.011अब्।
काद्या जान्ताः सम्मुखे स्युः साद्या दान्ताश् च दक्षिणे
अक्ले त्यजेत् कुजगणान् धाद्या मान्ताश् च पूर्वतः ।अप्_142.012अब्।
याद्या हान्ता उत्तरे स्युस्तिथिदृष्टिं विवर्जयेत्
पूर्वाश् च दक्षिणास्तिस्रो रेखा वै मूलभेदके ।अप्_142.013अब्।
सूर्यराश्यादि संलिख्य दृष्टौ हानिर्जयो ऽन्यथा
विष्टिराहुं प्रवक्ष्यामि अष्टौ रेखास्तु पातयेत् ।अप्_142.014अब्।
शिवाद्यमं यमाद्वायुं वायोरिन्द्रं ततो ऽम्बुपं
नैरृताच्च नयेच्चन्द्रं चन्द्रादग्निं ततो जले ।अप्_142.015अब्।
जलादीशे चरेद्राहुर्विष्ट्या सह महाबलः
ऐशान्यां च तृतीयादौ सप्तम्यादौ च याम्यके ।अप्_142.016अब्।
एवं कृष्णे सिते पक्षे वायौ राहुश् च हन्त्यरीन्
इन्द्रादीन् भैरवादींश् च ब्रह्माण्यादीन् ग्रहादिकान् ।अप्_142.017अब्।
अष्टाष्टकञ्च पूर्वादौ याम्यादौ वातयोगिनीं
यान्दिशं वहते वायुस्तत्रस्थो घातयेदरीन् ।अप्_142.018अब्।
दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता
पुष्योद्धृता काण्डलक्ष्यं वारयेत् शरपुङ्खिका ।अप्_142.019अब्।
:प् 94
तथा पराजिता पाठा द्वाभ्यां खड्गं निवारयेत्
ओं नमो भगवति वज्रशृङ्खले हन 2 ओं भक्ष 2 ओं खाद ओं
अरे रक्तं पिब कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि
भस्मलिप्तशरीरे वज्रायुधे वज्राकारनिचिते पूर्वां दिशं बन्ध 2
ओं दक्षिणां दिशम्बन्ध 2 ओं पश्चिमां दिशम्बन्ध 2
उत्तरां दिशम्बन्ध 2 नागान् बन्ध 2 नागपत्नीर्बन्ध 2 ओं असुरान्
बन्ध 2 ओं यक्षराक्षसपिशाचान् बन्ध 2 ओं
प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष 2 ओं ऊर्धवं
रक्ष 2 अधा रक्ष 2 ओं क्षुरिक बन्ध 2 ओं ज्वल महाबले घटि 2
ओं मोटि 2 सटावलिवज्जाग्निवज्रप्राकारे हुं फट् ह्रीं ह्रूं
श्रीं फट् ह्रीं हः फूं फें फः सर्वग्रहेभ्यः
सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष
2
ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् ॥20
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0