भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 140

140.001

:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे षष्टिसंवत्सराणि
नाम ऊनचत्वारिंशदधिकशततमो ऽध्यायः ॥
:न्
1 दुर्मुखे मुख्रो लोक इति ख.. , घ.. , ङ.. , ञ.. च
2 क्षीणधवो लोक इति क.. । क्षीणजनो लोक इति ज..
:प् 88
% छप्तेर् {140}
:श् अथ चत्वारिंशदधिकशततमो ऽध्यायः
वश्यादियोगाः
ईश्वर उवाच
वश्यादियोगान् वक्ष्यामि लिखेद् द्व्यष्टपदे त्विमान् ।अप्_140.001अब्।
भृङ्गराजः सहदेवी(1) मयूरस्य शिखा तथा

140.002

पुत्रञ्जीवकृतञ्जली ह्य् अधःपुष्पा रुदन्तिका ।अप्_140.002अब्।
कुमारी रुद्रजटा(2) स्याद्विष्णुक्रान्ता शितो ऽर्ककः

140.003

लज्जालुका मोहलता कृष्णधुस्तूरसञ्ज्ञिता(3) ।अप्_140.003अब्।
गोरक्षः कर्कटो चैव मेषशृङ्गी स्नुही तथा

140.004

ऋत्विजो 16 वह्नये 3 नागाः 8 पक्षौ 2 मुनि 3 मनू 14 शिवः 11 ।अप्_140.004अब्।
वसवो 8 दिक् 10 रसा 6 वेदा 4 ग्रह 9 र्तु6रवि 12 चन्द्रमाः 1

140.005

तिथयश् च 15 क्रमाद्भागा ओषधीनां प्रदक्षिणं ।अप्_140.005अब्।
प्रथमेन चतुष्केण धूपश्चोद्वर्तनं परं

140.006

तृतीयेनाञ्जनं कुर्यात् स्नानं कुर्याच्चतुष्कतः ।अप्_140.006अब्।
भृङ्गराजानुलोमाच्च चतुर्धा लेपनं स्मृतं

140.007

मुनयो दक्षणे पार्श्वे युगाद्याश्चोत्तराः स्मृताः ।अप्_140.007अब्।
भुजगाः पादसंस्थाश् च ईश्वरा मूर्ध्नि संस्थिताः

140.008

मध्येन सार्कशशिभिर्धूपः स्यात् सर्वकार्यके ।अप्_140.008अब्।
एतैर् विलिप्तदेहस्तु त्रिदशैर् अपि पूज्यते(4)

140.009

:न्
1 सहदेवा इति ख.. , घ.. , ङ.. , छ.. च
2 कुमारी वज्रजटा इति छ..
3 कृष्णधुस्तूरसञ्जिकेति ख..
4 त्रिदशैर् अपि गृह्यते इति घ.. , ङ.. च
:प् 89
धूपस्तु षोडशाद्यस्तु गृहाद्युद्वर्तने स्मृतः ।अप्_140.009अब्।
युगाद्याश्चाञ्जने प्रोक्ता वाणाद्याः स्नानकर्मणि

140.010

रुद्राद्या भक्षणे प्रोक्ताः पक्षाद्याः पानके स्मृताः ।अप्_140.010अब्।
ऋत्विग्वेदर्तुनयनैस्तिलकं लोकमोहनं

140.011

सूर्यत्रिदशपक्षैश् च शैलैः स्त्री लेपतो वशा ।अप्_140.011अब्।
चन्द्रेन्द्रफणिरुद्रैश् च योनिलेपाद्वशाः स्त्रियः

140.012

तिथिदिग्युगवाणैश् च गुटिका तु वशङ्करी ।अप्_140.012अब्।
भक्ष्ये भोज्ये तथा पाने दातव्या गुटिका वशे

140.013

ऋत्विग्ग्रहाक्षिशैलैश् च शस्त्रस्तम्भे मुखे धृता ।अप्_140.013अब्।
शैलेन्द्रवेदरन्ध्रैश् च अङ्गलेपाज्जले वसेत्

140.014

वाणाक्षिमनुरुद्रैश् च गुटिका क्षुत्तृषादिनुत् ।अप्_140.014अब्।
त्रिषोडशदिशावाणैर् लेपात् स्त्री दुर्भगा शुभा

140.015

त्रिदशाक्षिदिशानेत्रैर् लेपात् क्रीडेच्च पत्रगैः ।अप्_140.015अब्।
त्रिदशाक्षेशभुजगैर् लेपात् स्त्री सूयते सुखं

140.016

सप्तदिङ्मुनिरन्ध्रैश् च द्यूतजिह्वस्त्रलेपतः ।अप्_140.016अब्।
त्रिदशाक्ष्यब्धिमुनिभिर्ध्वजलेपात्(1) रतौ सुतः

140.017

ग्रहाब्धिसर्प्यत्रिदशैर् गुटिका स्याद् वशङ्करी ।अप्_140.017अब्।
ऋत्विक्पदस्थितौषध्याः प्रभावः प्रतिपादितः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc