अग्नि पुराण · अध्याय 139
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे षट्कर्माणि
नामाष्टत्रिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {139}
:श् अथोनचत्वारिंशदधिकशततमो ऽध्यायः
षष्टिसंवत्सराः
ईश्वर उवाच
षष्ट्यब्दानां प्रवक्ष्यामि शुभाशुभमतः शृणु ।अप्_139.001अब्।
प्रभवे यज्ञकर्माणि विभवे सुखिनो जनाः
शुक्ले च सर्वशस्यानि प्रमोदेन प्रमोदिताः ।अप्_139.002अब्।
प्रजापतौ प्रवृद्धिः स्यादङ्गिरा भोगवर्धनः
श्रीमुखे वर्धते लोको भावे भावः प्रवर्धते ।अप्_139.003अब्।
पूरणो पूरते शक्रो धाता सर्वौषधीकरः
ईश्वरः क्षेम आरोग्यबहुधान्यसुभिक्षदः ।अप्_139.004अब्।
प्रमाथी मध्यवर्षस्तु विक्रमे शस्यसम्पदः
वृषो वृष्यति सर्वांश् च चित्रभानुश् च चित्रतां ।अप्_139.005अब्।
:प् 87
स्वर्भानुः क्षेममारोग्यं तारणे जलदाः शुभाः
पार्थिवे शस्यसम्पत्तिरतिवृष्टिस् तथा जयः ।अप्_139.006अब्।
सर्वजित्युत्तमा वृष्टिः सर्वधारी सुभिक्षदः
विरोधी जलदान् हन्ति विकृतश् च भयङ्करः ।अप्_139.007अब्।
खरे भवेत् पुमान् वीरो नन्दने नन्दते प्रजा
विषयः शत्रुहन्ता च शत्रुरोगादि मर्दयेत् ।अप्_139.008अब्।
ज्वरार्तो मन्मथे लोको दुष्करे दुष्करा प्रजाः
दुर्मुखे दुर्मुखो लोको(1) हेमलम्बे न सम्पदः ।अप्_139.009अब्।
संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः
विकारी शत्रुकोपाय विजये सर्वदा क्वचित् ।अप्_139.010अब्।
प्लवे प्लवन्ति तोयानि शोभने शुभकृत्प्रजा
राक्षसे निष्ठुरो लोको विविधन्धान्यमानने ।अप्_139.011अब्।
सुवृष्टिः पिङ्गले क्वापि काले ह्य् उक्तो धनक्षयः
सिद्धार्थे सिद्ध्यते सर्वं रौद्रे रौद्रं प्रवर्तते ।अप्_139.012अब्।
दुर्मतौ मध्यमा वृष्टिर्दुन्दुभिः क्षेमधान्यकृत्
स्रवन्ते रुधिरोद्गारी रक्ताक्षः क्रोधने जयः ।अप्_139.013अब्।
क्षये क्षीणधनो लोकः(2) षष्टिसंवत्सराणि तु
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0