भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 138

138.001

:ए इत्य् आग्नेये महाओपुराणे युद्धजयार्णवे महामारी नाम
सप्तत्रिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {138}
:श् अथाष्टत्रिंशदधिकशततमो ऽध्यायः
षट्कर्माणि
ईश्वर उवाच
षट्कर्माणि प्रवक्ष्यामि सर्वमन्त्रेषु तच्छृणु ।अप्_138.001अब्।
आदौ साध्यं लिखेत् पूर्वं चान्ते मन्त्रसमन्वितं

138.002

पल्लवः स तु विज्ञेयो महोच्चाटकरः परः ।अप्_138.002अब्।
आदौ मन्त्रः ततः साध्यो मध्ये साध्यः पुनर्मनुः

138.003

योगाख्यः सम्प्रदायो ऽयङ्कुलोत्सादेषु योजयेत् ।अप्_138.003अब्।
आदौ मन्त्रपदन्दद्यान्मध्ये साध्यं नियोजयेत्

138.004

पुनश्चान्ते लिखेन्मन्त्रं साध्यं मन्त्रपदं पुनः ।अप्_138.004अब्।
:प् 85
रोधकः सम्प्रदायस्तु स्तम्भनादिषु योजयेत्

138.005

अधोर्ध्वं याम्यवामे तु(1) मध्ये साध्यन्तु योजयेत् ।अप्_138.005अब्।
सम्पुटः सतु विज्ञेयो वश्याकर्षेषु योजयेत्

138.006

मन्त्राक्षरं यदा साध्यं प्रथितञ्चाक्षराक्षरं ।अप्_138.006अब्।
प्रथमः सम्प्रदायः स्यादाकृष्टिवशकारकः

138.007

मन्त्राक्षरद्वयं लिख्य एकं साध्यक्षरं पुनः ।अप्_138.007अब्।
विदर्भः सतु विज्ञेयो वश्याकाकर्षेषु योजयेत्

138.008

आकर्षणाद् यत् कर्म वसन्ते चैव कारयेत् ।अप्_138.008अब्।
तापज्वरे तथा वश्ये स्वाहा चाकर्षणे शुभं

138.009

नमस्कारपदञ्चैव शान्तिवृद्धौ प्रयोजयेत् ।अप्_138.009अब्।
पौष्टिकेषु वषट्कारमाकर्षे वशकर्मणि

138.010

विद्वेषोच्चाटने मृत्यौ फट् स्यात् खण्डीकृतौ शुभे ।अप्_138.010अब्।
लाभादौ मन्त्रदीक्षादौ वषट्कारस्तु सिद्धिदः

138.011

यमो ऽसि यमाराजो ऽसि कालरूपो ऽसि धर्मराट् ।अप्_138.011अब्।
मयादत्तमिमं शत्रुमचिरेण निपातय

138.012

निपातयामि यत्नेन निवृत्तो भव साधक ।अप्_138.012अब्।
संहृष्टमनसा(2) ब्रूयाद्देशिको ऽरिप्रसूदनः

138.013

पद्मे शुक्ले यमं प्रार्च्य होमादेतत् प्रसिद्ध्यति ।अप्_138.013अब्।
आत्मानम्भैरवं ध्यात्वा ततो मध्ये कुलेश्वरीं

138.014

रात्रौ वार्तां विजानाति आत्मनश् च परस्य च ।अप्_138.014अब्।
:न्
1 अध ऊर्ध्वं याम्यवामे इति ख..
2 संरम्भमन्सेति छ..
:प् 86
दुर्गे दुर्गे रक्षणीति दुर्गां प्रार्च्यारिहा भवेत्

138.015

जप्त्वा हसक्षमलवरयुम्भैरवीं घातयेदरिं ॥15

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc