भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 137

137.001

अ, भ, कृ, रो, मृ, आ, पु, पु, अ, म, पू, उ, ह, चि, स्वा, वि, अ, ज्ये, मू, पू, उ,
अ, ध, श, पू, उ, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम
षट्त्रिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {137}
:श् अथ सप्तत्रिंशदधिकशततमो ऽध्यायः
महामारीविद्या
ईश्वर उवाच
महामारीं प्रवक्ष्यामि विद्यां शत्रुविमर्दिनीं ।अप्_137.001अब्।
:न्
1 चक्रम्फणीश्वरन्तद्वत् इति ग.. , घ.. , ङ.. , झ.. , ञ.. च
:प् 82
ओं ह्रीं महामारि रक्ताक्षि कृष्णवर्णे
यमस्याज्ञाकरिणि सर्वभूतसंहारकारिणि अमुकं हन 2 ओं दह
2 पच 2 ओं छिन्द 2 ओं मारय 2 ओं उत्सादय 2 ओं
सर्वसत्त्ववशङ्करि सर्वकामिके हुं फट् स्वाहेति
ओं मारि हृदयाय नमः । ओं महामारि शिरसे स्वाहा । ओं
कालरात्रि शिखायै वौषट् । ओं कृष्णवर्णे खः कवचाय
हुं । ओं तारकाक्षि विद्युज्जिह्वे सर्वसत्त्वभयङ्करि रक्ष 2
सर्वकार्येषु ह्रं त्रिनेत्राय चषट् । ओं महामारि
सर्वभूतदमानि महाकालि अस्त्राय हुं फट्
एष न्यासी महादेवि कर्तव्यः साधकेन तु

137.002

शवादिवस्त्रमादाय चतुरस्रन्त्रिहस्तकं ।अप्_137.002अब्।
कृष्णवर्णां त्रिवक्त्राञ्च चतुर्बाहुं समालिखेत्

137.003

पटे विचित्रवर्णैश् च धनुः शूलञ्च कर्तृकां(1) ।अप्_137.003अब्।
खट्वाङ्गन्धारयन्तीं च कृष्णाभं पूर्वमाननं

137.004

तस्य दृष्टिनिपातेन भक्षयेदग्रतो नरं ।अप्_137.004अब्।
द्वितीयं याम्यभागे तु रक्तजिह्वं भयानकं

137.005

लेलिहानं करालं च दंष्ट्रोत्कटभयानकं ।अप्_137.005अब्।
तस्य दृष्टिनिपातेन भक्ष्यमाणं हयादिकं

137.006

तृतीयं च सुखं देव्याः श्वेतवर्णं गजादिनुत् ।अप्_137.006अब्।
गन्धपुष्पादिमध्वाज्यैः पश्चिमाभिमुखं यजेत्

137.007

:न्
1 सधनुःशूलकर्तृकामिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. च
:प् 83
मन्त्रस्मृतेरक्षिरोगशिरोरोगादि नश्यति ।अप्_137.007अब्।
वश्याः स्युर्यक्षरक्षाश् च नाशमायान्ति शत्रवः

137.008

समिधो निम्बवृक्षस्य ह्य् अजारक्तविमिश्रिताः ।अप्_137.008अब्।
मारयेत् क्रोधसंयुक्तो होमादेव न संशयः

137.009

परसैन्यमुखो भूत्वा सप्ताहं जुहुयाद्यदि ।अप्_137.009अब्।
व्याधिभिर्गृह्यते सैन्यम्भङ्गो भवति वैरिणः

137.010

समिधो ऽष्टसहस्रन्तु यस्य नाम्ना तु होमयेत् ।अप्_137.010अब्।
अचिरान् म्रियते सोपि ब्रह्मणा यदि रक्षितः

137.011

उन्मत्तसमिधो रक्तविषयुक्तसहस्रकं ।अप्_137.011अब्।
दिनत्रयं ससैन्यश् च नाशमायाति वै रिपुः

137.012

राजिकालवर्णैर् होमाद्भङ्गो ऽरेः स्याद् दिनत्रयात् ।अप्_137.012अब्।
खररक्तसमायुक्तहोमादुच्चाटयेद्रिपुं

137.013

काकरक्तसमायोगाद्धोमादुत्सादनं ह्य् अरेः ।अप्_137.013अब्।
बधाय कुरुते सर्वं यत् किञ्चिन्मनसेप्सितं

137.014

अथ सङ्ग्रामसमये गजारूढस्तु साधकः ।अप्_137.014अब्।
कुमारीद्वयसंयुक्तो मन्त्रसन्नद्धविग्रहः

137.015

दूरशङ्खादिवाद्यनि विद्यया ह्य् आभिमन्त्रयेत् ।अप्_137.015अब्।
महामायापटं गृह्य उच्छेत्तव्यं रणाजिरे

137.016

परसैन्यमुखो भूत्वा दर्शयेत्तं महापटं ।अप्_137.016अब्।
कुमारीर्भोजयेत्तत्र पश्चात्पिण्डीञ्च भ्रामयेत्

137.017

साधकश्चिन्तयेत्सैन्यम्पाषाणमिव निश् चलं ।अप्_137.017अब्।
निरुत्साहं विभग्नञ्च मुह्यमानञ्च भावयेत्

137.018

एष स्तम्भो मया प्रोक्तो न देयो यस्य कस्य चित् ।अप्_137.018अब्।
:प् 84
त्रैलोक्यविजया माया दुर्गैवं भैरवी तथा

137.019

कुब्जिका भैरवो रुद्रो नारसिंहपटादिना ॥19

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc