भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 136

136.001

:ए इत्य् आग्नेये महापुराणे युद्धार्णवे सङ्ग्रामविजयविद्या नाम
पञ्चत्रिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {136}
:श् अथ षट्त्रिंशदधिकशततमो ऽध्यायः
नक्षत्रचक्रं
ईश्वर उवाच
अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् ।अप्_136.001अब्।
अश्विन्यादौ लिखेच्चक्रं त्रिनाडीपरिभूषितं

136.002

अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी ।अप्_136.002अब्।
हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात्

136.003

:न्
1 मुष्टिमुद्गरसंयुक्तौ इति ज.. । ऋष्टिमुद्गरयुक्तौ चेति ञ..
2 अभयस्वस्तिकान्वितौ इति ख.. , ग.. , ङ.. , छ.. , झ.. च ।
अभयस्तम्भिकाश्वितौ इति ज..
:प् 81
नाडीयं प्रथमा चान्या याम्यं मृगशिरस् तथा ।अप्_136.003अब्।
पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं

136.004

अहिर्व्रध्रं तृतीयाथ कृत्तिका रोहिणी ह्य् अहिः ।अप्_136.004अब्।
चित्रा स्वाती विशाखा च श्रवणा रेवती च भं

136.005

नाडीत्रितयसंजुष्टग्रहाज् ज्ञेयं शुभाशुभं ।अप्_136.005अब्।
चक्रम्फणीश्वरन्तत्तु(1) त्रिनाडीपरिभूषितं

136.006

रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं ।अप्_136.006अब्।
देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc