भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 132

132.001

:ए इत्य् आग्नेये महापुराणे
घातचक्रादिर्नामैकत्रिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {132}
:श् अथ द्वात्रिंशदधिकशततमो ऽध्यायः
सेवाचक्रं
ईश्वर उवाच
सेवाचक्रं प्रवक्ष्यामि लाभालाभानुसूचकं(2) ।अप्_132.001अब्।
पिता माता तथा भ्राता दम्पती च विशेषतः

132.002

:न्
1 मन्त्रश् चैव तु इति ख.. , घ.. , ज.. , ञ.. च
2 लाभालाभार्थसूचकमिति झ.. , ञ.. च
:प् 68
तस्मिंश् चक्रे तु विज्ञेयं यो यस्माल्लभते फलं ।अप्_132.002अब्।
षडूर्ध्वाः स्थापयेद्रेखा भिन्नाश्चाष्तौ तु तिर्यगाः

132.003

कोष्ठकाः पञ्चत्रिंशच्च तेषु वर्णान् समालिखेत् ।अप्_132.003अब्।
स्वरान् पञ्च समुद्धृत्य स्पर्शान् पश्चात् समालिखेत्

132.004

ककारादिहकारान्तान् हीनाङ्गांस्त्रीन्विवर्जयेत् ।अप्_132.004अब्।
सिद्धः साध्यः सुसिद्धश् च अरिर्मृत्युश् च नामतः

132.005

अरिर्मृत्युअश् च द्वावेतौ वर्जयेत् सर्वकर्मसु ।अप्_132.005अब्।
एषां मध्ये यदा नाम लक्षयेत्तु प्रयत्नतः

132.006

आत्मपक्षे(1) स्थिताः सत्त्वाः सर्वे ते शुभदायकाः ।अप्_132.006अब्।
द्वितीयः पोषकाश् चैव तृतीयश्चार्थदायकः

132.007

आत्मनाशश् चतुर्थस्तु(2) पञ्चमो मृत्युदायकः ।अप्_132.007अब्।
स्थानमेवार्थलाभाय मित्रभृत्यादिवान्धवाः

132.008

सिद्धः साध्यः सुसिद्धश् च सर्वे ते फलदायकाः ।अप्_132.008अब्।
अरिर्भृत्यश् च द्वावेतौ वर्जयेत् सर्वकर्मसु(3)

132.009

अकारान्तं यथा प्रोक्तं अ+इ+उ+ए+ओ विदुस् तथा ।अप्_132.009अब्।
पुनश् चैवांशकान् वक्ष्ये वर्गाष्टकसुसंस्कृतान्

132.010

देवा अकारवर्गे दैत्याः कवर्गमाश्रिताः ।अप्_132.010अब्।
नागाश् चैव चवर्गाः स्युर्गन्धवाश् च टवर्गजाः

132.011

:न्
1 स्वार्थपक्षे इति ख.. , घ.. , ज.. , ञ.. च । स्वात्मपक्षे इति झ..
2 स्वार्थनाशश् चतुर्थस्तु इति ख.. , घ.. , ङ.. , ज.. , ञ.. च
3 अरिर्मृत्युरित्यादिः, सर्वकर्मसु इत्य् अन्तः पाठः छ.. पुस्तके
नास्ति
:प् 69
तवर्गे ऋषयः प्रोक्ताः पवर्गे राक्षसाः स्मृताः ।अप्_132.011अब्।
पिशाचाश् च यवर्गे च शवर्गे मानुषाः स्मृताः

132.012

देवेभ्यो बलिनो दैत्या दैत्येभ्यः पन्नगास् तथा(1) ।अप्_132.012अब्।
पन्नगेभ्यश् च गन्धर्वा गन्धर्वादृषयो वराः

132.013

ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः ।अप्_132.013अब्।
पिशाचेभ्यो मानुषाः स्युर्दुर्बलं वर्जयेद्बली

132.014

पुनर्मित्रविभागन्तु ताराचक्रं क्रमाच्छृणु ।अप्_132.014अब्।
नामाद्यक्षरमृक्षन्तु स्फुटं कृत्वा तु पर्वतः

132.015

ऋक्षे तु संस्थितास्तारा नवत्रिका यथाक्रमात् ।अप्_132.015अब्।
जन्म सम्पद्विपत् क्षेमं नामर्क्षात्तारका इमाः

132.016

प्रत्यरा धनदा षष्ठी नैधनामैत्रके परे ।अप्_132.016अब्।
परमैत्रान्तिमा तारा जन्मतारा त्वशोभना

132.017

सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला ।अप्_132.017अब्।
क्षेमतारा सर्वकार्ये प्रत्परा अर्थनाशिनी(2)

132.018

धनदा राज्यलाभादि नैधना कार्यनाशिनी ।अप्_132.018अब्।
मैत्रतारा च मित्राय परमित्रा हितावहा(3)

132.019

ताराचक्रं ।मात्रा वै स्वरसञ्ज्ञा स्यान्नाममध्ये क्षिपेत् प्रिये ।अप्_132.019अब्।
विंशत्या च हरेद्भागं यच्छेषं तत् फलं भवेत्

132.020

उभयोर्त्रासमध्ये तु लक्षयेच्च धनं ह्य् ऋणं ।अप्_132.020अब्।
हीनमात्रा ह्य् ऋणं ज्ञेयन्धनं मात्राधिकं पुनः

132.021

:न्
1 पन्नगास्तत्र इति क.. , ग.. , घ.. , ङ.. , ञ.. च । पन्नगाः स्मृता इति
झ..
2 प्रत्यरा चात्मनाशिनी इति छ..
3 हिताय चेति ङ..
:प् 70
धनेन मित्रता नॄणां ऋणेनैव ह्य् उदासता ।अप्_132.021अब्।
सेवाचक्रमिदं प्रोक्तं लाभालाभादिदर्शकं

132.022

मेषमिथुनयोः प्रीतिर्मैत्री मिथुनसिंहयोः ।अप्_132.022अब्।
तुलासिंहौ महामैत्री एवं धनुर्घटे पुनः

132.023

मित्रसेवां न कुर्वीत मित्रौ मीनवृषौ मतौ ।अप्_132.023अब्।
वृषकर्कटयोर्मैत्री कुलीरघटयोस् तथा

132.024

कन्यावृश्चिकयोरेवन्तथा मकरकीटयोः ।अप्_132.024अब्।
मीनमकरयोर्मैत्री तृतीयैकादशे स्थिता

132.025

तुलामेषौ महामैत्री विद्विष्टो वृषवृश्चिकौ ।अप्_132.025अब्।
मिथुनधनुषोः प्रीतिः कर्कटमकरयोस् तथा

132.026

मृगकुम्भकयोः प्रीतिः कनामीनौ तथैव च ॥26

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc