अग्नि पुराण · अध्याय 131
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम
त्रिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {131}
:श् अथैकत्रिंशदधिकशततमो ऽध्यायः
घातचक्रादिः
ईश्वर उवाच
प्रदक्षिणमकारादीन् स्वरान् पूर्वादितो लिखेत् ।अप्_131.001अब्।
चैत्राद्यं भ्रमणाच्चक्रं प्रतिपत् पूर्णिमा तिथिः
त्रयोदशी चतुर्दशी अष्टम्येका च सप्तमी ।अप्_131.002अब्।
प्रतिपत्त्रयोदश्यन्तास्तिथयो द्वादश स्मृताः
चैत्रचक्रे तु संस्पर्शाज्जयलाभादिकं विदुः ।अप्_131.003अब्।
चिषमे तु शुभं ज्ञेयं समे चाशुभमीरितम्
युद्धकाले समुत्पत्रे यस्य नम ह्य् उदाहृतम् ।अप्_131.004अब्।
मात्रारूढन्तु यन्नाम आदित्यो गुरुरेव च
:न्
1 तिथिभेदे इति झ..
:प् 66
जयस्तस्य सदाकालं सङ्ग्रामे चैव भीषणे ।अप्_131.005अब्।
ह्रस्वनाम यदा योधो म्रियते ह्य् अनिवारितः(1)
प्रथमो दीर्घ आदिस्थो द्वितीयो मध्ये अन्तकः ।अप्_131.006अब्।
द्वौ मध्येन प्रथमान्तौ जायेते नात्र संशयः
पुनश्चान्ते यदा चादौ(2) स्वरारूढन्तु दृश्यते ।अप्_131.007अब्।
ह्रस्वस्य मरणं विद्याद् दीर्घस्यैव जयो भवेत्
नरचक्रं प्रवक्ष्यामि ह्य् ऋक्षपिण्डात्मकं यथा ।अप्_131.008अब्।
प्रतिमामालिखेत् पूर्वं पद्यादृक्षाणि विन्यसेत्
शीर्षे त्रीणि मुखे चैकं द्वे ऋक्षे नेत्रयोर्न्यसेत् ।अप्_131.009अब्।
वेदसङ्ख्यानि हस्ताभ्यां कर्णे ऋक्षद्वयं पुनः
हृदये भूतसङ्ख्यानि षडृक्षाणि तु पादयोः ।अप्_131.010अब्।
नाम ह्य् ऋक्षं स्फुटं कृट्वा चक्रमध्ये तु विन्यसेत्
नेत्रे शिरोदक्षकर्णे याम्यहस्ते च पादयोः ।अप्_131.011अब्।
हृद्ग्रीवावामहस्ते तु पुनर्गुह्ये तु पादयोः
यस्मिन्नृक्षे स्थितः सूर्यः सौरिर्भौमस्तु सैंहिकः ।अप्_131.012अब्।
तस्मिन् स्थाने स्थिते विद्याद् घातमेव न संशयः
जयचक्रं प्रवक्ष्यामि आदिहान्तांश् च वै लिखेत् ।अप्_131.013अब्।
रेखास्त्रयोदशालिख्य षड्रेखास्तिर्यगालिखेत्
दिग् ग्रहा मुनयः सूर्या ऋत्विग्रुद्रस्तिथिः क्रमात् ।अप्_131.014अब्।
मूर्छनास्मृतिवेदर्क्षजिना(3) अकडमा ह्य् अधः
:न्
1 म्रियते ह्य् अविचारित इति ख.. । म्रियते ह्य् अविचारत इति ग.. , घ.. , ङ.. च
2 यथा चादौ इति क.. , ग.. , घ.. , ङ.. च
3 मूर्छनास्मृतिवेदाङ्गजिना इति ञ..
:प् 67
आदित्याद्याः सप्तहृते नामान्ते बलिनो ग्रहाः ।अप्_131.015अब्।
आदित्यसौरिभौमाख्या जये सौम्याश् च सन्धये
रेखा द्वादश चोद्धृत्य षट् च यास्यास्तथोत्तराः ।अप्_131.016अब्।
मनुश् चैव तु(1) ऋक्षाणि नेत्रे च रविमण्डलं
तिथयश् च रसा वेदा अग्निः सप्तदशाथवा ।अप्_131.017अब्।
वसुरन्ध्राः समाख्याता अकटपानधो न्यसेत्
एकैकमक्षरन्न्यस्त्वा शेषाण्येवङ्क्रमान् न्यसेत् ।अप्_131.018अब्।
नामाक्षरकृतं पिण्डं वसुभिर्भाजयेत्ततः
वायसान्मण्डलो ऽत्यग्रो मण्डलाद्रासभो वरः ।अप्_131.019अब्।
रासभाद्वृषभः श्रेष्ठा वृषभात् कुञ्जरो वरः
कुञ्जराच्चैव पुनः सिंहः सिंहाश् चैव खरुर्वरः ।अप्_131.020अब्।
खरोश् चैव बली धूम्रः एवमादि बलाबलं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0