भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 133

133.001

:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे सेवाचक्रं नाम
द्वात्रिंशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {133}
:श् अथ त्रयस्त्रिंशदधिकशततमो ऽध्यायः
नानाबलानि
ईश्वर उवाच
गर्भजातस्य वक्ष्यामि क्षेत्राधिपस्वरूपकं ।अप्_133.001अब्।
नातिदीर्घः कृशः स्थूलः समाङ्गो गौरपैतिकः

133.002

:प् 71
रक्ताक्षो गुणवान् शूरो गृहे सूर्यस्य जायते ।अप्_133.002अब्।
सौभाग्यो मृदुसारश् च जातश् चन्द्रगृहोदये

133.003

वाताधिको ऽतिलुब्धादिर्जातो भूमिभुवो गृहे ।अप्_133.003अब्।
बुद्धिमान् सुभगो मानी जातः सौम्यगृहोदये

133.004

वृहत्क्रोधश् च शुभगो जातो गुरुगृहे नरः ।अप्_133.004अब्।
त्यागो भोगो च सुभगो जातो भृगुगृहोदये

133.005

बुद्धिमाञ्छुभगो मानी जातश्चार्किगृहे नरः ।अप्_133.005अब्।
सौम्यलग्ने तु सौम्यः स्यात् क्रूरः स्यात् क्रूरलग्नके

133.006

दशाफलङ्गौरि वक्ष्ये नामराशौ तु संस्थितं ।अप्_133.006अब्।
गजाश्वधनधान्यानि राज्यश्रीर्विपुला भवेत्

133.007

पुनर्धनागमश्चापि दशायां भास्करस्य तु ।अप्_133.007अब्।
दिव्यस्त्रीदा चन्द्रदशा भूमिलाभः सुखं कुजे

133.008

भूमिर्धान्यं धनं बौधे गजाश्वादिधनं गुरौ ।अप्_133.008अब्।
खाद्यपानधनं द्शुक्रे शनौ व्याध्यादिसंयुतः

133.009

स्नानसेवादिनाध्वानं वाणिज्यं राहुर्दर्शने ।अप्_133.009अब्।
वामनाडीप्रवाहे स्यान्नाम चेद्विषमाक्षरं

133.010

तदा जयति सङ्ग्रामे शनिभौमससैंहिकाः ।अप्_133.010अब्।
दक्षनाडीप्रवाहेर्के वाणिज्ये चैव निष्फला

133.011

सङ्ग्रामे जयमाप्नोति समनामा नरो ध्रुवं ।अप्_133.011अब्।
अधश्चारे जयं विद्यादूर्ध्वचारे रणे मृतिं

133.012

ओं हूं ओं ह्रूं ओं स्फें अस्त्रं मोटय(1) ओं चूर्णय 2
ओं सर्वशत्रुं मर्दय 2 ओं ह्रूं ओं ह्रः फट्
:न्
1 मोचयेति ख.. , छ.. च
:प् 72
सप्तवारन्न्यसेन्मन्त्रं ध्यात्वात्मानन्तु भैर् अवं ।अप्_133.012अब्।
चतुर्भुजन्दशभुजं विंशद्बाह्वात्मकं शुभं

133.013

शूलखट्वाङ्गहस्तन्तु खड्गकट्टारिकोद्यतं ।अप्_133.013अब्।
भक्षणं परसैन्यानामात्मसैन्यपराङ्मुखं

133.014

सम्मुखं शत्रसैन्यस्य शतमष्टोत्तरं जपेत् ।अप्_133.014अब्।
जपाड्डमरुकाच्छब्दाच्छस्त्रं त्यक्त्वा पलायते

133.015

परसैन्यं शृणु भङ्गं प्रयोगेन पुनर्वदे ।अप्_133.015अब्।
श्मशानाङ्गारमादाय विष्टाञ्चोलूककाकयोः

133.016

कर्पटे प्रतिमां लिख्य साध्यस्तैवाक्षरं यथा ।अप्_133.016अब्।
नामाथ नवधा लिख्य रिपोश् चैव यथाक्रमं

133.017

मूर्ध्नि वक्त्रे ललाटे च हृदये गुह्यपादयोः ।अप्_133.017अब्।
पृष्ठे तु बाहुमध्ये तु(1) नाम वै नवधा लिखेत्

133.018

मोटयेद्युद्धकाले तु(2) उच्चरित्वा तु विद्यय ।अप्_133.018अब्।
तार्क्ष्यचक्रं प्रवक्ष्यामि जयार्थं त्रिमुखाक्षरं(3)

133.019

क्षिप ओं स्वाहा तार्क्षात्मा शत्रुरोगविषादिनुत् ।अप्_133.019अब्।
दुष्टभूतग्रहार्तस्य व्याधितस्यातुरस्य च

133.020

करोति यादृशङ्कर्म तादृशं सिद्ध्यते खगात् ।अप्_133.020अब्।
स्थावरं जङ्गमञ्चैव लूताश् च कृत्रिमं विषं

133.021

तत्सर्वं नाशमायाति(4) साधकस्यावलोकनात् ।अप्_133.021अब्।
:न्
1 बाहुमूले तु इति ग..
2 मोचयेद्युद्धकाले तु इति ज.. , झ.. च
3 जयार्थं भूमुखाक्षरमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज..
च
4 नाशमाप्नोतीति ज..
:प् 73
पुनर्ध्यायेन्महातार्क्ष्यं द्विपक्षं मानुषाकृतिं

133.022

द्विभुजं वक्रचञ्चुं च(1) गजकूर्मधरं प्रभुं ।अप्_133.022अब्।
असङ्ख्योरगपादस्थमागच्छन्तं खमध्यतः

133.023

ग्रसन्तञ्चैव खादन्तं तुदन्तं चाहवे रिपून् ।अप्_133.023अब्।
चञ्च्वाहताश् च द्रष्टव्याः केचित्पादैश् च चूर्णिताः

133.024

पक्षपातैश्चूर्णिताश् च केचिन्नष्टा दिशो दश ।अप्_133.024अब्।
तार्क्ष्यध्यानान्वितो यश् च त्रिलोक्ये ह्य् अजयो भवेत्(2)

133.025

पिच्छिकान्तु प्रवक्ष्यामि मन्त्रसाधनजां क्रियां ।अप्_133.025अब्।
ओं ह्रूं पक्षिन् क्षिप ओं हूं सः महाबलपराक्रम
सर्वसैन्यं भक्षय 2 ओं मर्दय 2 ओं चूर्णय 2 ओं विद्रावय 2
ओं हूं खः ओं भैरवो ज्ञापयति स्वाहा
अमुञ्चन्द्रग्रहणे तु जपङ्कृत्वा तु पिच्छिकां

133.026

मन्त्रयेद् भ्रामयेत्सैन्यं सम्मुखं गजसिंहयोः ।अप्_133.026अब्।
ध्यानाद्रवान् मर्दयेच्च सिंहारूढो मृगाविकान्

133.027

शब्दाद्भङ्गं प्रवक्ष्यामि दूरं मन्त्रेण(3) बोधयेत् ।अप्_133.027अब्।
मातॄणां चरुकं दद्यात् कालरात्र्या विशेषतः

133.028

श्मशानभस्मसंयुक्तं मालती चामरी तथा(4) ।अप्_133.028अब्।
कार्पासमूलमात्रन्तु तेन दूरन्तु बोधयेत्

133.029

ओं अहे हे महेन्द्रि अहे महेन्द्रि भञ्ज हि ओं जहि मसानंहि खाहि
खाहि किलि किलि किलि ओं हुं फट्
:न्
1 वज्रचञ्चुं चेति ग.. , घ.. , ङ.. , ञ.. च
2 अभयो भवेदिति ग.. , घ.. , ङ.. च
3 हरमन्त्रेणेति क.. । मूलमन्त्रेणेति ख.. , घ.. , ज.. , ञ.. च
4 मालती वानरी तथेति छ.. , ञ.. च
:प् 74
अरेर् नाशं दूरशब्दाज्जप्तया भङ्गविद्यया ।अप्_133.029अब्।
अपराजिता च धुस्तूरस्ताभ्यान्तु तिलकेन हि

133.030

ओं किलि किलि विकिलि इच्छाकिलि भूतहनि शङ्खिनि उभे दण्दहस्ते रौद्रि
माहेश्वरि उल्कामुखि ज्वालामुखि शङ्कुकर्णे शुष्कजङ्घे
अलम्बुषे हर ओं सर्वदुष्टान् खन ओं यन्मन्निरीक्षयेद्देवि
तांस्तान् मोहय ओं रुद्रस्य हृदये स्थिता रौद्रि सौम्येन भावेन
आत्मरक्षान्ततः कुरु स्वाहा
वाह्यतो मातॄः संलिख्य सकलाकृतिवेष्टिताः ।अप्_133.030अब्।
नागपत्रे(1) लिखेद्विद्यां सर्वकामार्थसाधनीं

133.031

हस्ताद्यैर् धारिता पूर्वं ब्रह्मरुद्रेन्द्रविष्णुभिः ।अप्_133.031अब्।
गुरुसङ्ग्रामकाले तु विद्यया रक्षिताः सुराः

133.032

रक्षया नारसिंह्या च भैरव्या शक्तिरूपया ।अप्_133.032अब्।
सर्वे त्रैलोक्यमोहिन्या गौर्या देवासुरे रणे

133.033

वीजसम्पुटितं नाम कर्णिकायां दलेषु च ।अप्_133.033अब्।
पूजाक्रमेण चाङ्गानि रक्षायन्त्रं(2) स्मृतं शुभे

133.034

मृत्युञ्जयं प्रवक्ष्यामि नामसंस्कारमध्यग ।अप्_133.034अब्।
कलाभिवेष्टितं पश्चात् सकारेण निबोधितं

133.035

जकारं विन्दुसंयुक्तं ओङ्कारेण समन्वितं ।अप्_133.035अब्।
धकारोदरमध्यस्थं वकारेण निबोधितं(3)

133.036

:न्
1 नागयन्त्रे इति घ.. , ञ.. च
2 रक्षामन्त्रमिति ख.. , ग.. , ङ.. , ज.. च
3 ककारोदरमध्यस्थं चकारेणेति ख.. । चकारोदरमध्यस्थं
चकारेणेति ग.. , झ.. च । वकारोदरमध्यस्थं ठकारेणेति ङ.. ,
छ.. च
:प् 75
चन्द्रसम्पुटमध्यस्थं सर्वदुष्टविमर्दकम्(1) ।अप्_133.036अब्।
अथवा कर्णिकायाञ्च लिखेन्नाम च कारणम्

133.037

पूर्वे दले तथोङ्कारं स्वदक्षे चोत्तरे लिखेत् ।अप्_133.037अब्।
आग्नेय्यादौ च हूङ्कारन्दले षोडशके स्वरान्

133.038

चतुस्त्रिंशद्दले काद्यान् वाह्ये मन्त्रञ्च मृत्युजित् ।अप्_133.038अब्।
लिखेद्वैभूर्जपत्रे तु रोचनाकुङ्ग्कुमेन च

133.039

कर्पूरचन्दनाभ्याञ्च श्वेतसूतेण वेष्टयेत् ।अप्_133.039अब्।
सिक्थकेन परिच्छाद्य कलशोपरि पूजयेत्

133.040

यन्त्रस्य(2) धारणाद्रागाः शाम्यन्ति रिपवो मृतिः ।अप्_133.040अब्।
विद्यान्तु भेलखीं वक्ष्ये विप्रयोगमृतेर्हरीं(3)

133.041

ओं वातले वितले विडालमुखि इन्द्रपुत्रि उद्भवो वायुदेवेन खीलि आजी
हाजा मयि वाह इहादि दुःखनित्यकण्ठोच्चैर् मुहूर्तान्वया अह
मां यस्महं उपाडि ओं भेलखि ओं स्वाहा
नवदुर्गासप्तजप्तान्मुखस्तम्भो मुखस्थितात् ।अप्_133.041अब्।
ओं चण्डि ओं हूं फट् स्वाहा
गृहीत्वा सप्तजप्तं तु खद्गयुद्धे ऽपराजितः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc