अग्नि पुराण · अध्याय 130
:ए इत्य् आग्नेये महापुराणे अर्घकाण्डं नाम
ऊनत्रिंशदधिकशततमो ऽध्यायः ॥
:प् 63
% छप्तेर् {130}
:श् अथ त्रिंशदधिकशततमो ऽध्यायः
घातचक्रं
ईश्वर उवाच
मण्डलानि प्रवक्ष्यामि चतुर्धा विजयाय हि ।अप्_130.001अब्।
कृत्तिका च मघा पुष्पं पूर्वा चैव तु फल्गुनी
विशाखा भरणी चैव पूर्वभाद्रपदा तथा ।अप्_130.002अब्।
आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं
यद्यत्र चलते वायुर्वेष्टनं शशिसूर्ययोः ।अप्_130.003अब्।
भूमिकम्पो ऽथ निर्घातो ग्रहणं चन्द्रसूर्ययोः
धूमज्वाला दिशां दाहः केतोश् चैव प्रदर्शनं ।अप्_130.004अब्।
रक्तवृष्टिश्चोपतापः पाषाणपतनन्तथा
नेत्ररोगो ऽतिसारश् च अग्निश् च प्रबलो भवेत् ।अप्_130.005अब्।
स्वल्पक्षीरास् तथा गावः स्वल्पपुष्पफला द्रुमाः
विनाशश् चैव शस्यानां स्वल्पवृष्टिं विनिर्दिशेत् ।अप्_130.006अब्।
चातुर्वर्णाः प्रपीड्यन्ते क्षुधार्ता अखिला नराः
सैन्धवा यामुनाश् चैव गुर्जका भोजवाह्णिकाः ।अप्_130.007अब्।
जालन्धरं च काश्मीरं सप्तमञ्चोत्तरापथम्
देशाश् चैते विनश्यन्ति तस्मिन्नुत्पातदर्शने ।अप्_130.008अब्।
हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः
उत्तराफल्गुनी चैव अश्विनी च तथैव च ।अप्_130.009अब्।
:प् 64
यदात्र भवते(1) किञ्चिद्वायव्यन्तं विनिर्दिशेत्
नष्टधर्माः प्रजाः सर्वा हाहाभूता विचेतसः ।अप्_130.010अब्।
डाहलः कामरूपञ्च कलिङ्गः कोशलस् तथा
अयोध्या च अवन्ती च नश्यन्ते कोङ्कणान्ध्रकाः ।अप्_130.011अब्।
अश्लेषा चैव मूलन्तु पूर्वाषाढा तथैव च
रेवती वारुणं ह्य् ऋक्षन्तथा भाद्रपदोत्तरा ।अप्_130.012अब्।
यदात्र चलते(2) किञ्चिद्वारुणं तं विनिर्दिशेत्
बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः ।अप्_130.013अब्।
आरोग्यं तत्र जायेत बहुशस्या च मेदिनी
धान्यानि च समर्घानि सुखिक्षं पार्थिव भवेत् ।अप्_130.014अब्।
प्परस्परं नरेन्द्राणां सङ्ग्रामो दारुणो भवेत्
ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् ।अप्_130.015अब्।
धनिष्ठा चोत्तराषाढा अभिजित् सप्तमन्तथा
यदात्र शलते(3) किञ्चिन् माहेन्द्रं तं विनिर्दिशेत् ।अप्_130.016अब्।
प्रजाः समुदितास्तस्मिन् सर्वरोगविवर्जिताः
सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् ।अप्_130.017अब्।
ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान्
चन्द्रो राहुस् तथादित्य एकराशौ यदि स्थितः(4) ।अप्_130.018अब्।
मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते
:न्
1 यद्यत्र भ्वते इति ज..
2,3 यदात्र लभते इति छ..
4 यथा स्थित इति ख.. , ग.. , घ.. , ङ.. , ज.. च । यदा स्थित इति ज.. , झ.. च
:प् 65
भानोः पञ्चदशे ह्य् ऋक्षे यदा चरति चन्द्रमाः ।अप्_130.019अब्।
तिथिच्छेदे(1) तु सम्प्राप्ते सोमग्रामं विनिर्दिशेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0