अग्नि पुराण · अध्याय 129
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे कोटचक्रं
नामाष्टाविंशत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {129}
:श् अथोनत्रिंशदधिकशततमो ऽध्यायः
अर्घकाण्डम्
ईश्वर उवाच
अर्घमानं प्रवक्ष्यामि उल्कापातो ऽथ भूश् चला ।अप्_129.001अब्।
निर्घातो ग्रहणं वेशो दिशां दाहो भवेद्यदा
लक्षयेन्मासि मास्येवं यद्येते स्युश् च चैत्रके ।अप्_129.002अब्।
अलङ्कारादि सङ्गृह्य षड्भिर्मासैश् चतुर्गुणम्
वैशाखे चाष्टमे मासि षड्गुणं सर्वसङ्ग्रहं ।अप्_129.003अब्।
ज्यैष्ठे मासि तथाषाढे यवगोधूमधान्यकैः
श्रावणे घृततैलाद्यैर् आश्विने वस्त्रधान्यकैः ।अप्_129.004अब्।
कार्त्तिके धान्यकैः क्रीतैर् मासे स्यान्मार्गशीर्षके
पुष्ये कुङ्कुमगन्धाद्यैर् लाभो धान्यैश् च माघके ।अप्_129.005अब्।
गन्धाद्यैः फाल्गुने क्रीतैर् अर्घकाण्डमुदाहृतम्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0