भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 128

128.001

:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम
सप्तविंशत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {128}
:श् अथ अष्टाविंशत्यधिकशततमो ऽध्यायः
कोटचक्रम्
ईअवर उवाच
कोटचक्रं प्रवक्ष्यामि चतुरस्रं पुरं लिखेत् ।अप्_128.001अब्।
चतुरस्रं पुनर्मध्ये तन्मध्ये चतुरस्रकम्

128.002

:प् 61
नाडीत्रितयचिह्नाढ्यं मेषाद्याः पूर्वदिङ्मुखाः ।अप्_128.002अब्।
कृत्तिका पूर्वभागे तु अश्लेषाग्नेयगोचरे

128.003

भरणी दक्षिणे देया विशाखां नैरृते न्यसेत् ।अप्_128.003अब्।
अनुराधां पश्चिमे च श्रवणं वायुगोचरे

128.004

धन्बिष्ठाञ्चोत्तरे न्यस्य ऐशान्यां रेवतीं तथा ।अप्_128.004अब्।
वाह्यनाड्यां स्थितान्येव अष्टौ ह्य् ऋक्षाणि यत्नतः

128.005

रोहिणीपुष्यफल्गुण्यः स्वाती ज्येष्ठा क्रमेण तु ।अप्_128.005अब्।
अभिजिच्छततारा तु अश्विनी मध्यनाडिका

128.006

कोटमध्ये तु या नाडी कथयामि प्रयत्नतः ।अप्_128.006अब्।
मृगश्चाभ्यन्तरे पूर्वं तस्याग्नेये पुनर्वसुः

128.007

उत्तराफल्गुनी याम्ये चित्रा नैरृतसंस्थिता ।अप्_128.007अब्।
मूलन्तु पश्चिमे न्यस्योत्तराषाढान्तु वायवे

128.008

पूर्वभाद्रपदा सौम्ये रेवती ईशगोचरे ।अप्_128.008अब्।
कोटस्याभ्यन्तरे नाडी ह्य् ऋक्षाष्टकसमन्विता

128.009

आर्द्रा हस्ता तथाषाढा चतुष्कञ्चोत्तरात्रिकम् ।अप्_128.009अब्।
मध्ये स्तम्भचतुष्कन्तु दद्यात् कोटस्य कोटरे

128.010

एवं दुर्गस्य विन्यासं वाह्ये स्थानं दिशाधिपात् ।अप्_128.010अब्।
आगन्तुको यदा योद्धा ऋक्षवान् स्यात्फलान्वितः

128.011

कोटमध्ये ग्रहाः सौम्या यदा ऋक्षान्विताः पुनः ।अप्_128.011अब्।
जयं मध्यस्थितानान्तु भङ्गमागामिनो विदुः

128.012

प्रवेशभे प्रवेष्टव्यं निर्गमभे च निर्गमेत् ।अप्_128.012अब्।
भृगुः सौम्यस् तथा भौम ऋक्षान्तं सकलं यदा

128.013

तदा भङ्गं विजानीयाज्जयमागन्तुकस्य च ।अप्_128.013अब्।
:प् 62
प्रवेशर्क्षचतुष्के तु सङ्ग्रामञ्चारभेद् यदा

128.014

तदा सिद्ध्यति तद्दुर्गं न कुर्यात्तत्र विस्मयम् ॥14

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc