अग्नि पुराण · अध्याय 127
:ए इत्य् आग्नेये महापुराणे नक्षत्रनिर्णयो नाम
षड्विंशत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {127}
:श् अथ सप्तविंशत्यधिकशततमो ऽध्यायः
नानाबलानि
ईश्वर उवाच(2)
विष्कुम्भे घटिकास्तिस्रः शूले पञ्च विवर्जयेत्(3) ।अप्_127.001अब्।
षट् षट्(4) गण्डे ऽनिगण्डे च नव व्याद्यातवज्रयोः
परिघे च व्यतीपाते उभयोरपि तद्दिनम् ।अप्_127.002अब्।
वैधृते तद्दिनञ्चैव यात्रायुद्धादिकन्त्यजेत्
ग्रहैः शुभाशुभं वक्ष्ये देवि मेषादिराशितः(5) ।अप्_127.003अब्।
चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ
:न्
1 जातके चापीति ख..
2 अग्निरुवाचेति छ..
3 पञ्च च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. च
4 षट् च गण्डे ऽतिगण्डे चेति ख.. , घ.. , छ.. च । सप्त
गण्डेतिगण्डे चेति ग.. , ङ.. च
5 मेषादिराशिभिरिति ज..
:प् 59
द्वितीयो मङ्गलो ऽथार्कः सौरिश् चैव तु सैंहिकः ।अप्_127.004अब्।
द्रव्यनाशमलाभञ्च आहवे भङ्गमादिशेत्
सोमो बुधो भृगुर्जीमो द्वितीयस्थाः शुभावहाः ।अप्_127.005अब्।
तृतीयस्थो यदा भानुः शनिर्भौमो भृगुस् तथा
बुधश् चैवेन्दू राहुश् च सर्वे ते फलदा ग्रहाः ।अप्_127.006अब्।
बुधशुक्रौ चतुर्थौ तु शेषाश् चैव भयावहाः
पञ्चमस्थो यदा जीवः शुक्रः सौम्यश् च चन्द्रमाः ।अप्_127.007अब्।
ददेत(1) चेप्सितं लाभं षष्ठे स्थाने शुभो रविः
चन्द्रः सौरिर्मङ्गलश् च ग्रहा देवि स्वराशितः ।अप्_127.008अब्।
बुधश् च शुभदः षष्ठे त्यजेत् षष्ठं गुरुंभृगुं
सप्तमो ऽर्कः शनिर्भौमो राहुर्हान्यै सुखाय च ।अप्_127.009अब्।
जीवो भृगुश् च सौम्यश् च ज्ञशुक्रो चाष्टमौ शुभौ
शेषा ग्रहास् तथा हान्यै ज्ञभृगू नवमौ शुभौ ।अप्_127.010अब्।
शेषा हान्यै च लाभाय दशमौ भृगुभास्करौ
शनिर्भौमश् च राहुश् च चन्द्रः सौम्यः शुभावहः ।अप्_127.011अब्।
शुभाश् चैकादशे सर्वे वर्जयेद्दशमे(2) गुरुम्
बुधशुक्रौ द्वादशस्थौ शेषान् द्वादशगांस्त्यजेत् ।अप्_127.012अब्।
अहोरात्रे द्वादश स्यू राशयस्तान् वदाम्यहम्
मीनो मेषो ऽथ मिथुनञ्चतस्रो नाडयो वृषः ।अप्_127.013अब्।
षट् कर्कसिंहकन्याश् च तुला पञ्च च वृश्चिकः
धनुर्नक्रो घटश् चैव सूर्यगो राशिराद्यकः ।अप्_127.014अब्।
:न्
1 ददातीति ख..
2 वर्जयेद्दशमिति ख.. , ग.. , घ.. , ङ.. च
:प् 60
चरस्थिरद्विःस्वभावा मेषाद्याः स्युर्यथाक्रमम्
कुलीरो मकरश् चैव तुलामेषादयश् चराः ।अप्_127.015अब्।
चरकार्यं जयं काममाचरेच्च शुभशुभम्
स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्यके ।अप्_127.016अब्।
शीघ्रः समागमो नास्ति रोगार्तो नौव मुच्यते
मिथुनं कन्यका मौनी धनुश् च द्विःस्वभावकः ।अप्_127.017अब्।
द्विःस्वभावाः शुभाश् चैते सर्वकार्येषु नित्यशः
यात्रावाणिज्यसङ्ग्रामे विवाहे राजदर्शने ।अप्_127.018अब्।
वृद्धिं जयन्तथा लाभं युद्धे जयमवाप्नुयात्
अश्विनी विंशताराश् च तुरगस्याकृतिर्यथा ।अप्_127.019अब्।
यद्यत्र कुरुते वृष्टिमेकरात्रं प्रवर्षति
यमभे तु यदा वृष्टिः पक्षमेकन्तु वर्षति
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0