अग्नि पुराण · अध्याय 126
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाचक्राणि नाम
पञ्चविंशत्यधिकशततमो ऽध्यायः ॥
:न्
1 दग्धत्वं जायते क्षणात् इति घ.. , ज.. च
2 वज्रमुख इति घ..
3 हुंफडिति ख..
:प् 54
% छप्तेर् {126}
:श् अथ षड्विंशत्यधिकशततमो ऽध्यायः
नक्षत्रनिर्णयः
ईश्वर उवाच
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये ।अप्_126.001अब्।
यस्मिन्नृक्षे भवेत् सूर्यस्तदादौ त्रीणि मूर्धनि(1)
एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं ।अप्_126.002अब्।
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत्
शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः ।अप्_126.003अब्।
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः
हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(2) पदे ।अप्_126.004अब्।
कुम्भाष्तके भानि लिख्य(3) सूर्यकुम्भस्तु रिक्तकः
अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः ।अप्_126.005अब्।
फणिराहुं(4) प्रवक्ष्यामि जयाजयविवेकदं
अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः ।अप्_126.006अब्।
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत्
यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(5) ।अप्_126.007अब्।
तदादि विन्यसेद् भानि सप्तविंशक्रमेण तु
वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे ।अप्_126.008अब्।
:न्
1 त्रीणि मस्तके इति ज..
2 गतायुरध्वगः पदे इति ख..
3 भानि लिखेदिति घ.. , ज.. च
4 कालराहुमिति ङ..
5 कालमूर्धनीति ङ.. , ज, च
:प् 55
स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः
उदरस्थेन(1) पूजा च जयश् चैवात्मनस् तथा ।अप्_126.009अब्।
कटिदेशे स्थिते योधे आहवे हरते परान्
पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः ।अप्_126.010अब्।
पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव
रविः शुक्रो बुधश् चैव सोमः सौरिर्गुरुस् तथा(2) ।अप्_126.011अब्।
लोहितः संहिकश् चैव एते यामार्धभागिनः
सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः ।अप्_126.012अब्।
स जयेत् सैन्यसङ्घातं द्यूतमध्वानमाहवं
रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि ।अप्_126.013अब्।
अश्विनी रेवती स्वाती धनिष्ठा शततारका
क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव(3) योजयेत् ।अप्_126.014अब्।
अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः
सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया ।अप्_126.015अब्।
पुर्वास्तिस्रो ऽग्निर्भरणी मघार्द्राश्लेषादारुणाः
स्थावरेषु स्थिरं ह्य् ऋक्षं यात्रायां क्षिप्रमुत्तमं ।अप्_126.016अब्।
सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत्
दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं ।अप्_126.017अब्।
कृत्रिका भरण्यश्लेषा विशाखा पितृनैरृतम्
:न्
1 उदरस्थे चेति ख..
2 कटिदेश इत्य् आदिः, सौरिर्गुरुस्तथेत्यन्तः पाठः घ.. पुस्तके
नास्ति
3 यात्राध्वनि चेति ख.. , घ.. च
:प् 56
पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्(1) ।अप्_126.018अब्।
एषु कूपतडागादि विद्याकर्म भिषक्क्रिया
स्थापनन्नौकाभूपादिविधानं(2) खननन्तथा ।अप्_126.019अब्।
रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः
अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः ।अप्_126.020अब्।
एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः
आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं ।अप्_126.021अब्।
ध्वजचिह्नपताकाश् च(3) सर्वानेतांश् च कारयेत्
द्वादशी सूर्यदग्धा तु चन्द्रेणैकदशी तथा ।अप्_126.022अब्।
भौमेन दशमी दग्धा तृतीया वै बुधेन च
षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा ।अप्_126.023अब्।
सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे
द्वितीया द्वादशी चैव सप्तमी वै तृतीयया(4) ।अप्_126.024अब्।
रविर्भौमस् तथा(5) शौरिः षडेतास्तु त्रिपुष्कराः(6)
विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः ।अप्_126.025अब्।
पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः
लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च ।अप्_126.026अब्।
नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं(7) भवेत्
:न्
1 चाधोमुखं भवेदिति ख..
2 नौकाद्यूतादिविधानमिति ग.. , घ.. , ङ.. च
3 वज्रचिह्नपताकाश्चेति झ..
4 तृतीयकेति ङ.. , ज.. च
5 गुरुर्भौमस्तथेति क.. , ग.. , घ.. , ङ.. च
6 षडेतास्त्रिषु पुष्करा इति क.. , ख.. , ङ.. , छ.. च
7 तत्सर्वं द्विगुणमिति ख.. , छ.. च
:प् 57
अश्विनी भरणी चैव अश्लेषा पुष्यमेव च ।अप्_126.027अब्।
खातिश् चैव विशाखा च श्रवणं सप्तमं पुनः
एतानि दृढचक्षूंषि पश्यनति च दिशो दश ।अप्_126.028अब्।
यात्रासु दूरगस्यापि आगमः पुण्यगोचरे
आषाढे रेवती चित्रा केकराणि पुनर्वसुः ।अप्_126.029अब्।
एषु पञ्चसु ऋक्षेषु(1) निर्गतस्यागमो भवेत्
कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा ।अप्_126.030अब्।
मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः
पूर्वभाद्रपदा चैव चिपिटानि च तानि हि(2) ।अप्_126.031अब्।
अध्वानं व्रजमानस्य पुनरेवागमो भवेत्
हस्त उत्तरभाद्रश् च आर्द्राषाढा तथैव च ।अप्_126.032अब्।
नष्टार्थाश् चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते
पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् ।अप्_126.033अब्।
रेवत्यन्ते चतुर्नाडी(3) अश्विन्यादिचतुष्टयम्
उभयोर्याममात्रन्तु वर्जयेत्तत् प्रयत्नतः ।अप्_126.034अब्।
अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम्
द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु ।अप्_126.035अब्।
ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम्
:न्
1 केकरेषु च ऋक्षेषु इति छ..
2 चिपिटानि च भानि हि इति क.. , छ.. च
3 रेवत्यन्ते चतुष्कन्तु इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
:प् 58
न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं ।अप्_126.036अब्।
दारके जातकाले च(1) म्रियेते पितृमातरो
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0