अग्नि पुराण · अध्याय 125
:ए इत्य् आग्नेये महापुराणे युद्धजयार्णवे ज्योतिःशास्त्रसारो नाम
चतुर्विंशत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {125}
:श् अथ पञ्चविंशत्यधिकशततमो ऽध्यायः
युद्धजयार्णवीयनानाचक्राणि
ईश्वर उवाच
ओं ह्रीं कर्णमोटानि बहुरूपे बहुदंष्ट्रे ह्रूं
:न्
1 नाडीमूले इति ख..
2 तत्र वीजं जीवनायेति ख.. , छ.. च । तत्र जीवं जीवलोक इति
ङ
3 तस्मिन्नस्ते इति घ..
:प् 48
फट्(1) ओं हः ओं ग्रस ग्रस कृन्त कृन्त छक छक छक
ह्रूं फट्(2) नमः
पठ्यमानो ह्य् अयं मन्त्रः क्रुद्धः संरक्तलोचनः ।अप्_125.001अब्।
मारणे पातने वापि मोहनोच्चाटने भवेत्
कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका ।अप्_125.002अब्।
नानाविद्या
पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं
नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः ।अप्_125.003अब्।
उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत्
करोति साधकः क्रुद्धो जपहोमपरायणः ।अप्_125.004अब्।
हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे(3)
कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं ।अप्_125.005अब्।
दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः
गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः ।अप्_125.006अब्।
स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः
चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा ।अप्_125.007अब्।
रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत्
उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः ।अप्_125.008अब्।
सौम्या च भीषणी देवी जया च विजया तथा
अजिता चापराजिता महाकोटी च रौद्रया ।अप्_125.009अब्।
शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः
:न्
1,2 ओं हुं फडिति ख..
3 ज्वरदाहनिवारणे इति घ..
:प् 49
विरूपाक्षी परा दिव्यास् तथा चाकाशमातरः ।अप्_125.010अब्।
संहारी जातहारी च दंष्ट्राला शुष्करेवती
पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।अप्_125.011अब्।
भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका
स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा ।अप्_125.012अब्।
द्वात्रिंशन्मातरश् चक्रे अष्टाष्टक्रमशः स्थिताः
एक एव रविश् चन्द्र एकश् चैकैकशक्तिका ।अप्_125.013अब्।
भूतभेदेन तीर्थानि(1) यथा तोयं महीतले
प्राण एको मण्डलैश् च भिद्यते भूतपञ्जरे ।अप्_125.014अब्।
वामदक्षिणयोगेन दशधा सम्प्रवर्तते
विन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं ।अप्_125.015अब्।
ब्रह्माण्डेन(2) कपालेन पिवेत परमामृतं
पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।अप्_125.016अब्।
अ+आकचटतपयाः श आस्यो वर्ग ईरितः
इ+ईखछठथफराः षो वर्गश् च द्वितीयकः ।अप्_125.017अब्।
उ+ऊगजडदबलाः सो वर्गश् च तृतीयकः
ए+ऐघझढधभवाः सो वर्गश् च चतुर्थकः ।अप्_125.018अब्।
ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत्
वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।अप्_125.020अब्।
बालः कुमारो युवा स्याद्वृद्धो मृत्युश् च नामतः
:न्
1 भूतभेदेन भिन्नानि इति ङ.। तानि भेदेन भिन्नानि इति घ..
2 ब्रह्मदण्डे इति ङ..
:प् 50
आत्मपीदा शोषकः स्यादुदासीनश् च कालकः ।अप्_125.020अब्।
कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः
षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।अप्_125.021अब्।
मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी
बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः ।अप्_125.022अब्।
जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी
जीवो ऽष्टमी(1) धनिष्ठार्द्रा जीवो ऽश्लेषा त्रयोदशी ।अप्_125.023अब्।
मृत्यौ शुक्रश् चतुर्थी स्यात् पूर्वभाद्रपदा श्रिये
पूर्वाषाढा च नवमी शुक्रः पीडाकरो भवेत् ।अप्_125.024अब्।
भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत्
कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता ।अप्_125.025अब्।
अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत्(2)
मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः ।अप्_125.026अब्।
तिथियोगः
पूर्वोत्तराग्निनैरृत्यदक्षिणानिलचन्द्रमाः(3)
ब्रह्माद्याः स्युर्दृष्टयः स्युः(4)प्रतिपन्नवमीमुखाः ।अप्_125.027अब्।
राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः
मेषाद्याश् चतुरः कुम्भा जयः पूर्णे ऽन्यथा मृतिः ।अप्_125.028अब्।
सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत्
:न्
1 जीवे ऽष्टमीति ख..
2 भरणीत्यादिः, पीडाकरो भवेत्यन्तः पाठः छ.. पुस्तके
नास्ति
3 दक्षाग्न्यनिलचन्द्रमा इति घ..
4 ब्रह्माद्याः स्युस्त्रिदृष्टाः स्युरिति ख..
:प् 51
रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।अप्_125.029अब्।
कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः
जयाय मनसे(1) शुक्रो मन्दे भङ्गो रणे भवेत् ।अप्_125.030अब्।
देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि
मुखे नेत्रे ललाटे ऽथ शिरोहस्तोरुपादके ।अप्_125.031अब्।
पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षे ऽर्थनाशनम्
मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् ।अप्_125.032अब्।
कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम्
इन्द्राच्च नैरृतङ्गच्छेत्रैरृतात्सोममेव च ।अप्_125.033अब्।
सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं
रुद्राद्यमं यमाद्वायुं वायोश् चन्द्रं व्रजेत् पुनः ।अप्_125.034अब्।
भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्टे जयो रणे
अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते ।अप्_125.035अब्।
आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये
पूर्वे कृष्णाष्टमीं यावत् राहुदृष्टौ भयो भवेत् ।अप्_125.036अब्।
ऐशान्याग्नेयनैरृत्यवायव्ये फणिराहुकः
मेषाद्या दिशि पूर्वादौ यत्रादित्यो ऽग्रतो मृतिः ।अप्_125.037अब्।
तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा
चतुर्दशी तथा शुक्रे चतुर्थ्येकादशी तिथिः ।अप्_125.038अब्।
पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे
अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः ।अप्_125.039अब्।
:न्
1 मणये इति ख.. , ङ.. च
:प् 52
गृध्रोलुकश्येनकाश् च पिङ्गलः कौशिकः क्रमात्
साससश् च मयूरश् च गोरङ्कुः पक्षिणः स्मृताः ।अप्_125.040अब्।
आदौ साध्यो हुतो मन्त्र(1) उच्चाटे पल्लवः स्मृतः
वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः ।अप्_125.041अब्।
शान्तो प्रीतो नमस्कारो वौषट् पुष्टो वशादिषु
हुं मृत्यौ(2) प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् ।अप्_125.042अब्।
वषट् सुते च दीप्त्यादौ(3) मन्त्राणां जातयश् च षट्
ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः ।अप्_125.043अब्।
महाकाली तथा चण्डी वाराही चेश्वरी तथा
सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् ।अप्_125.044अब्।
बला चातिबला भीरुर्मुसली सहदेव्यपि
जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः ।अप्_125.045अब्।
चक्ररूपा महोषध्यो धारिता विजयादिदाः
ग्रहणे च महादेवि उद्धृताः शुभदायिकाः ।अप्_125.046अब्।
मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम्
तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः ।अप्_125.047अब्।
नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके
वल्मीकमृदामाहृत्य मातरौ योजयेत्ततः ।अप्_125.048अब्।
ओं नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय
पिङ्गलाक्षाय त्रिशूलखड्गधराय(4) वौषट्
:न्
1 आदौ हुताशनो मन्त्र इति ख..
2 हुं मृतौ इति ख..
3 वषट् लाभे च दीप्त्यादाविति घ.. , छ.. च
4 त्रिशूलखट्वाङ्गधरायेति ख.. , ग.. , घ.. , छ.. च । त्रिशूलिने
खड्गखट्वाङ्गधरायेति ज..
:प् 53
पूजयेत् कर्दमं देवि स्तम्भयेच्छस्त्रजालकम्
अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।अप्_125.049अब्।
श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः
दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं ।अप्_125.050अब्।
तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम्
ओं नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं
मारय सहसा नमो ऽस्तु ते भगवति विद्ये स्वाहा
अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः(1) ।अप्_125.051अब्।
ओं वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्ध्वकेश
महाबल रक्तमुख(2) तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह
करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह
गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि
महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय
जम्भय खन खन वैते ह्रूं फट्(3)
अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत्
पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः
॥52
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0