अग्नि पुराण · अध्याय 124
लोध्नप्रियङ्गुरजनीमांसीतैलं वशङ्करं ।अप्_123.033अब्।
:ए इत्य् आग्नेये महापुराणे नानायोगा नाम
त्रयोविंशत्यधिकशततमो ऽध्यायः ॥
:न्
1 ओं नमो भगवते भैरवायेति ख.. , घ.. च
2,3 ओं हूमिति ख.. , ज.. च
4 सहदेवा चेति ङ..
5 मञ्जिष्ठा तगरन्तथेति क.. । मञ्जिष्ठा भल्लकं वचेति
छ..
:प् 45
% छप्तेर् {124}
:श् अथ चतुर्विंशत्यधिकशततमो ऽध्यायः
युद्धजयार्णवीयज्योतिःशास्त्रसारः
अग्निर् उवाच
ज्योतिःशास्त्रादिसारञ्च वक्ष्ये युद्धजयार्णवे ।अप्_124.001अब्।
विना मन्त्रोषधाद्यञ्च यथ्योमामीश्वरो ऽब्रवीत्(1)
देव्युवाच
देवैर् जिता दानवाश् च(2) येनोपायेन तद्वद ।अप्_124.002अब्।
शुभाशुभविवेकाद्यं ज्ञानं युद्धजयार्णवं
ईश्वर उवाच
मूलदेवेच्चया जाता शक्तिः पञ्चादशाक्षरा ।अप्_124.003अब्।
चराचरं ततो जातं यामाराध्याखिलार्थवित्(3)
मन्त्रपीठं प्रवक्ष्यामि पञ्चमन्त्रसमुद्भवं ।अप्_124.004अब्।
ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः
ऋग्यजुःसामाथर्वाख्यदेवमन्त्राः क्रमेण ते ।अप्_124.005अब्।
सद्योजातादयो मन्त्रा ब्रह्मा विष्णुश् च रुद्रकः
ईशः सप्तशिखा देवाः शक्राद्याः पञ्च च स्वराः ।अप्_124.006अब्।
अ+इ+उ+ए+ओ कलाश् च मूलं ब्रह्मेति कीर्तितं
काष्ठमध्ये तथा वह्निरप्रवृद्धो न दृश्यते ।अप्_124.007अब्।
विद्यमाना तथा देहे शिवशक्तिर्न दृश्यते
आदौ शक्तिः समुत्पन्ना ओङ्कारस्वरभूषिता ।अप्_124.008अब्।
ततो विन्दुर्महादेवि एकारेण व्यवस्थितः
:न्
1 ईश्वरो ऽवदत् इति घ..
2 दानवाद्या इति ज..
3 यामाराध्याखिलात्मविदिति ख.. , ग.. च
:प् 46
जातो नाद उकारस्तु नदते हृदि संस्थितः ।अप्_124.009अब्।
अर्धचन्द्र इकारस्तु मोक्षमार्गस्य बोधकः
अकारो व्यक्त उत्पन्नो भोगमोक्षप्रदः परः(1) ।अप्_124.010अब्।
अकार ऐश्वरे भूमिर्निवृत्तिश् च कला स्मृता
गन्धोनवीजः प्राणाख्य इडाशक्तिः स्थिरा स्मृता ।अप्_124.011अब्।
इकारश् च प्रतिष्ठाख्यो रसो पालश् च पिङ्गला
क्रूरा शक्तिरीवीजः स्याद्धरवीजो ऽग्निरूपवान् ।अप्_124.012अब्।
विद्या समाना गान्धारी शक्तिश् च दहनी स्मृता
प्रशान्तिर्वार्युपस्पृशो यश्चोदानश् चला क्रिया ।अप्_124.013अब्।
ओङ्कारः शान्त्यतीताख्यः खशब्दयूथपाणिनः
पञ्च वर्गाः स्वरा जाताः कुजज्ञगुरुभार्गवाः ।अप्_124.014अब्।
शनिः क्रमादकाराद्याः ककाराद्यास्त्वधः स्थिताः
एतन्मूलमतः सर्वं ज्ञायते सचराचरं ।अप्_124.015अब्।
विद्यापीठं प्रवक्ष्यामि प्रणवः शिव ईरितः
उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्रापि ।अप्_124.016अब्।
ब्रह्मा विष्णुः क्रमाद्रुद्रो गुणाः सर्गादयस्त्रयः
रत्ननाडीत्रयञ्चैव(2) स्थूलः सूक्ष्मः परो ऽपरः ।अप्_124.017अब्।
चिन्तयेच्छ्वेतवर्णन्तं मुञ्चमानं परामृतं
प्लव्यमानं यथात्मानं चिन्तयेत्तं दिवानिशं ।अप्_124.018अब्।
अजरत्वं भवेद्देवि शिवत्वमुपगच्छति(3)
:न्
1 भोगमोक्षप्रदः शुभ इति ज..
2 बहुनाडीत्रयञ्चैवेति क.. , ङ.. च
3 शिवत्वमधिगच्छतीति ज..
:प् 47
अङ्गुष्ठादौ न्यसेदङ्गान्नेत्रं मध्ये ऽथ देहके ।अप्_124.019अब्।
मृत्युञयं ततः प्रार्च्य रणादौ विजयी भवेत्
शून्यो निरालयः शब्दः स्पर्शं तिर्यङ्नतं स्पृशेत् ।अप्_124.020अब्।
रूपस्योर्ध्वगतिः प्रोक्ता जलस्याधः समाश्रिता
सर्वस्थानविनिर्मुक्तो गन्धो मध्ये च मूलकं ।अप्_124.021अब्।
नाभिमूले(1) स्थितं कन्दं शिवरूपन्तु मण्डितं
शक्तिव्यूहेन सोमो ऽर्को हरिस्तत्र व्यवस्थितः ।अप्_124.022अब्।
दशवायुसमोपेतं पञ्चतन्मात्रमण्डितं
कालानलसमाकारं प्रस्फुरन्तं शिवात्मकं ।अप्_124.023अब्।
तज्जीवं जीवलोकस्य(2) स्थावरस्य चरस्य च
तस्मिन्नष्टे(3) मृतं मन्ये मन्त्रपीठे ऽनिलात्मकं ॥24
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0