अग्नि पुराण · अध्याय 100
:ए इत्य् आग्नेये महापुराणे सूर्यप्रतिष्ठा नामैकोनशततमो
ऽध्यायः ॥
:न्
1 स्नानादिकं च सम्पूज्य इति ख.. , छ.. , च
2 विन्यस्य पदपञ्चकमिति छ.. । विन्यस्य रत्नपञ्चकमिति ज..
3 आत्मनेति छ..
4 शक्त्यर्थमिति ङ..
5 सूर्यमन्त्राश्चेति छ..
6 स्थापनेपि वेति ज..
:प् 341
% छप्तेर् {100}
:श् अथ शततमो ऽध्यायः
द्वारप्रतिष्ठाकथनं
ईश्वर उवाच
द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ ।अप्_100.001अब्।
द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत्
मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरं ।अप्_100.002अब्।
विन्यस्य सन्निवेश्याथ(1) हुत्वा जप्त्वात्र रूपतः(2)
द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रितः ।अप्_100.003अब्।
रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च
यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः ।अप्_100.004अब्।
गोमृत्सर्षपरागेन्द्रमोहनीलक्षणामृताः
रोचना रुग् वचो दूर्वा प्रासादधश् च पोटलीं ।अप्_100.005अब्।
प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु
द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत् ।अप्_100.006अब्।
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः
शिवमकाशदेशे च व्यापकं सर्वमङ्गले(3) ।अप्_100.007अब्।
ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः
:न्
1 विन्यस्य च निवेशयाथ इति ख.. । विन्यस्य सन्निबोध्याथेति ज..
2 अजप्त्वानुरूपत इति ग..
3 सर्वपुष्कलमिति ख.. , घ.. च
:प् 342
द्वाराश्रितांश् च तल्पादीन्(1) कृतयुक्तैः(2) स्वनामभिः ।अप्_100.008अब्।
जुहुयाच्छतमर्धं वा द्विगुणं शक्तितोथवा(3)
न्यूनादिदोषमोषार्थं हेतितो जुहुयाच्च्छतं(4) ।अप्_100.009अब्।
दिग्बलिम्पूर्ववद्धुत्वा(5) प्रदद्याद्दक्षिणादिकं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0