भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकारवृत्तिः स्फुटार्था · अध्याय 8

8.1

निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावाद् उन्मूलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदशिंनं ग्राहकं नेक्षते, तदा सर्वे ऽप्वेवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वम् एकेनैव क्षणेनाधिगच्छतीत्येकक्षणाभिसम्बोध इति ।
इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारवृत्तिः ।
धर्मकायाधिकारः अष्टमः
1 - स्वभावकायः
विभावितैकक्षणाभिसम्बोधस्य द्वितीये क्षणे धर्मकायाभिसम्बोधः । स च स्वाभाविककायादिभेदेन चतुर्विधः । (तत्र) प्रथमः स्वाभाविककाय इत्याह -
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः

8.2

स्मृत्युपस्थानादयो ज्ञानात्मका लोकोत्तरा धर्मधातुरूपत्वाद् अनास्रवामलानामागन्तुकत्वेन सर्वप्रकारां विशुद्धिं प्रकृतिविविक्तलक्षणां प्राप्तास्तेषां या प्रकृतिः स्वभावो ऽनुत्पादरूपः, अयं मुनेर्बुद्धस्य भगवतो लोकोत्तरेण मार्गेण प्राप्यते, न क्रियत इत्यकृत्रिमार्थेन मायोपमविज्ञानसर्वधर्मप्रतिपत्त्याधिगतः स्वाभाविकः कायः ।
परिशिष्टकायत्रयं तथ्यसंवृत्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभावितं बुद्धबोधिसत्त्वश्रावकादिगोचरत्वेन व्यवस्थापितमिति कथनाय -
विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम् ।
इतिन्यायात् तदव्यतिरेके ऽपि पृथग् व्यवस्थाप्यते ।
2 - ज्ञानधर्मकायः
इत्थं प्रथमं कायं निर्दिश्य द्वितीयो निष्प्रपञ्चज्ञानात्मको धर्मकायः अनास्रवः स्मृत्युपस्थानाद्यात्मक इति तमाह -
बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः ।
नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम्

8.3

अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः

8.4

सर्वाकाराश्चतस्रो ऽथ शुद्धयो वशिता दश ।
बलानि दश चत्वारि वैशारद्यान्यरक्षणम्

8.5

त्रिविधं स्मुत्युपस्थानं त्रिधा ऽसंमोषधर्मता ।
वासनायाः समुद्धातो महतो करुणा जने

8.6

आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते

8.7

इति । स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता बोधिपक्षाः । पूर्ववदप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः । अध्यात्मं रूप्यरूपी बहिर्धा रूपाणि पश्यतीति द्वौः, शुभं विमोक्षं कायेन साक्षात्कृत्वोपम्पद्य विहरतीत्येकः, आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनानीति चत्वारः, संज्ञावेदितनिरोध इत्येकः इत्यष्टौ विमोक्षाः । रूपधातुचतुर्ध्यानानि चतुरारूप्यसमापत्तयो निरोधसमापत्तिरिति नव समापत्तयः । पृथिव्यप्तेजोवायुनीलपीतलोहितावदातविज्ञानाकाशमिति कृत्स्नं दशविधम् । अध्यात्मरूपारूपसंज्ञिनौ प्रत्येकं परीत्ताधिमात्राकाराभ्यां बहिर्धा रूपाणि पश्यतस्तान्यभिभूय जानीत इति चतुष्टयम्, अध्यात्मारूपसंज्ञी एव नीलपीतलोहितावदातानभिभूय पश्यतीति चतुष्टयमित्यष्टविधमभिभ्वायतनम् । परसन्तानगतक्लेशरणप्रबन्धोन्मूलनात् समाधिरित्यरणा । सम्यगपगतसर्वनिमित्तसङ्गव्याघातं संशयापनयनकारिप्रणिधानसमृद्ध्या आसंसारमसमाहितावस्थायां प्रवर्तत इति प्रणिधिज्ञानम्, षडभिज्ञाश्चतस्रश्च प्रतिसविदः पूर्वोक्ता आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतस्रः शुद्धयः । आयुश्चित्तपरिष्कारकर्मोपपत्त्यधिमुक्तिप्रणिधानर्द्धिज्ञानधर्मवशिता इति दश वशिताः । पूर्वोक्तानि दश बलानि, चत्वारि वैशारद्यानि च । परिशुद्धकायवाङ्मनःसमुदाचारस्तथागतः, नास्त्यस्य विपरीतसमुदाचारता, यां परपरिज्ञानभयात् प्रच्छादयितव्यां मन्येत इत्यरक्षणं त्रिविधम् । धर्मदेशनायां श्रोतुकामाश्रोतुकामोभयकामेषु यथाक्रममनुनयप्रतिघोभयविविक्त एवोपक्षेकः स्मृतिमान् विहरतीति स्मृत्युपस्थानं त्रिधा । सत्त्वार्थक्रियाकालानतिक्रमलक्षणेत्यसंमोषधर्मता । क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणाद् वासनायाः समुद्धातः सकलजनहिताशयता, महती करुणा जने ऽष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता । ऽचऽ इति शब्देन संगृहीताः मार्गज्ञतादयो ऽपि प्रागुक्ताः ।
सर्वे चाश्रयपरावृत्त्या परावृत्ता बोधिपक्षादयो निष्प्रपञ्चज्ञानात्मका धर्मकायो ऽभिधीयत इति केचित् ।
अन्ये तु -
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥
इति यथारुतत्त्वेन लोकोत्तरानेवानास्रवान् धर्मानभ्युपगम्य तेषां यां प्रकृतिरनुत्पादता तल्लक्षणः स्वाभाविकः कायः, स एव च धर्मताकायो धर्मकाय इति भावप्रत्ययलोपाद् व्यपदिश्यत इति व्याख्याय, के पुनस्ते ऽनास्रवा धर्मा येषां प्रकृतिलक्षणो धर्मकाय इत्याशङ्क्य ऽबोधिपक्षाप्रमाणानीऽ त्यादिकारिकामवतारयन्ति । तेषां योगिसंवृत्या विशिष्टार्थप्रतिभासजननद्वारेणाश्रयपरावृत्त्या परावृत्ता धर्मदेशनाद्यर्थक्रियाकारिणो ऽवश्यमद्वयाश्चित्तचैताः कथमभ्युपगन्तव्याः? सङ्गृहीता इत्यपरे ।
केचित् (कायचतुष्टयव्याख्याने) -
स्वाभाविकः ससाम्भोगो नैर्माणिको ऽपरस्तथा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥
इतिकारिकायां स्वाभाविकशब्दानन्तरं धर्मकायशब्दस्यापाठात् कायत्रयमेवेति । अन्ये तूपदर्शितप्रयोजनसामर्थ्यात् कारिकाबन्धानुरोधेन ज्ञानस्यैव कारित्रेण सम्बन्धार्थं चैवमुक्तम्, अतो ऽविरुद्धं सर्वं प्रदेशान्तराभिहितं कायचतुष्टयं भवतीति ।
श्रावकाद्यरणासमाधेः बुद्धस्यारणासमाधेः वैशिष्ट्यदर्शनाय अन्तरश्लोकेनाह -
श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता ।
तत्क्लेशस्रोतौच्छित्त्यै ग्रामादिषु जिनारणा

8.8

इति । मा ऽस्मद्दर्शनात् कस्यचित् क्लेशोत्पत्तिः स्यादिति मनुष्यक्लेशोत्पत्तिपरिहारिता श्रावकाद्यरणासमाधिः । तथागतानां तु सकलजनक्लेशप्रबन्धोन्मूलनं स्यादिति ग्रामादिषु अरणासमाधिविशेषः ।
श्रावकादिप्रणिधिज्ञानात् तथागतप्रणिधिज्ञानस्य वैशिष्ट्यप्रदर्शनाय अन्तरश्लोकेनाह -
अनाभोगमनासङ्गमव्याघातं सदा स्थितम् ।
सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते

8.9

इति । निर्निमित्तत्वेन स्वरसप्रवृत्तम्, वस्त्वनभिनिवेशाद् रूपादिसङ्गविगतम्, सवासनक्लेशज्ञेयावरणप्रहाणात् सर्वज्ञेयाव्याघातम्, आसंसारमवस्थानात् सदा स्थितम्, सम्यक् प्रतिसंविल्लाभात् प्रश्नविसर्जनकारि ताथागतं प्रणिधिज्ञानमितीष्टम् । श्रावकादीनां विपरीतत्वेन नैवम् ।
स्यादेवं नित्यं महाकरुणामयधर्मकायावस्थाने कथं (सकलप्राणभृतां) सदा नाथेक्रियेति? अन्तरश्लोकेन समाधानमाह -
परिपाकं गते हेतौ यस्य यस्य यदा यदा ।
हितं भवति कर्तव्यं प्रथते तस्य तस्य सः

8.10

इति । कल्याणमित्रादिसमवधानाद् बुद्धाद्यालम्बने परिपोषं गते हेतौ पूर्वावरोपितकुशलमूलबीजे सति, यस्य सत्त्वस्य यस्मिन् काले धर्मदेशनादिकं क्रियमाणमायतिपथ्यं भवति, तदा तस्यार्थकरणाय पूर्वप्रणिधानसमृद्ध्या तत्प्रतिभासानुरूपेणार्थक्रियाकारी भगवानिति (महाकरुणास्वभावधर्मकायावस्थानेन) सर्वदा चिन्तामणिरिवोपस्थितो ऽपि स्वकर्मापराधजनितहेतुवैधुर्यान्न फलदायकः प्रतिभासत इत्यभिप्रायः ।
तत्कथमिति शंकायामन्तरश्लोकेन दृष्टान्तमाह -
वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति ।
समुत्पादे ऽपि बुद्धानां नाभव्यो भद्रमश्नुते

8.11

इति । यथा देवराजे वर्षत्यपि सति पूतीभावादिना अबीजीभूतं बीजं तिलादि न प्रादुर्भवति, तद्वद् बुद्धानां सकलमनोरथपरिपूरणदक्षाणां समुत्पादे ऽपि अभव्यो न भद्रं सद्धर्मश्रवणादिकं प्राप्नोतीति ।
कथं ज्ञानात्मको धर्मकायः प्रतिनियतयोगिसन्तानाधारवर्ती प्रतिक्षणमुत्पद्यमानो व्यापो नित्य इति कथ्यत इति चेद्? अन्तरश्लोकेनाह -
इति कारित्रवैपुल्याद् बुद्धो व्यापी निरूच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते

8.12

इति । यथोक्तन्यायेनैवं सर्वत्र प्रतिभासद्वारेणार्थक्रियाकरणवैपुल्यात् प्रबन्धतया आसंसारमवस्थानेन च भगवतः क्षयाभावाद् यथाक्रमं बुद्धो व्यापी नित्य इत्यभिधीयते ।
3 - सम्भोगकायः
कायद्वयमेवं निर्दिश्य लक्षणानुव्यञ्जनविराजितः साम्भोगिकः रूपकायस्वभावस्तृतीयः । तमाह -
द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
सांभोगिको मतः कायो महायानोपभोगतः

8.13

इति । द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनात्मको ऽयं दशभूमिप्रविष्टमहाबोधिसत्त्वैः परमानवद्यमहायानधर्मसंभोगप्रीतिसुखोपभोगात् बुद्धस्य भगवतः साम्भोगिककायः ।
कानि तानि द्वात्रिंशल्लक्षणानीति चेत्? पञ्चभिरन्तरश्लोकैराह -
चक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः ।
करौ सपादौ तरुणौ मृदू च समुत्सदैः सप्तभिराश्रयो ऽस्य

8.14

दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः

8.15

सुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।
ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः

8.16

हीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
उष्णीषमूर्धा पृथुचारुजिह्वो ब्रह्मस्वरः सिंहहनुःसुशुक्लाः

8.17

तुल्याः प्रमाणे ऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि

8.18

इति । (1) गुरूणामनुगमनप्रत्युद्गमनादिना चक्राङ्कहस्तपादता ।
(2) दृढसंवरसमादानत्वात् कूर्मवत् सुप्रतिष्ठितपादता ।
(3) चतुःसंग्रहवस्तुसेवनाद् राजहंसवत् जालावनद्धाङ्गुलिपाणिपादता ।
(4) प्रणीतखाद्यभोज्यादिदानाद् मृदुतरुणहस्तपादता ।
(5) प्रणीततरलेह्यादिदानेन समुच्छ्रितहस्तपादस्कन्धग्रीवाप्रदेशत्वात् सप्तोच्छ्रयता ।
(6) वध्यमोक्षणत्वाद् दीर्घाङ्गुलिता ।
(7) जीवितानुग्रहणाद् आयतपार्ष्णिता ।
(8) प्राणातिपातविरत्या बृहदृजुगात्रता ।
(9) कुशलधर्मसमादानाद् उच्छङ्खपादता ।
(1)) गृहीतकुशलसमादानवर्धनात् ऊर्ध्वगरोमता ।
(11) सत्कृत्य विद्याशिल्पादिदानाद् एणेयजङ्घता ।
(12) संविद्यमानार्थयाचनकजनाप्रत्याख्यानात् पटूरूबाहुता ।
(13) सर्वजनब्रह्मचर्यसमादापनगुह्यमन्त्रारक्षणात् कोशगतबस्तिगुह्यता ।
(14) प्रणीतोपास्तरणदानात् सुवर्णवर्णता ।
(15) प्रासादादिवरदानात् श्लक्ष्णच्छविता ।
(16) सङ्गणिकादिपरिवर्जनात् प्रदक्षिणावर्तैकैकरोमता ।
(17) सर्वगुरुजनयथास्थाननिवेशनाद् ऊर्णाङ्कितमुखता ।
(18) सर्वथा मुखरवचनानवसादनात् सिंहपूर्वार्द्धकायता ।
(19) प्रियवादित्वसुभाषितानुलोमत्वात् सुसंवृतस्कन्धता ।
(20) भैषज्यादिदानात् चितान्तरांसता ।
(21) ग्लानजनोपस्थानाद् रसरसाग्रता ।
(22) वनारामादिकरणसमादापनात् न्यग्रोधपरिमण्डलता ।
(23) विहाराद्यभ्यधिकप्रदानादुष्णीषशिरस्कता ।
(24) श्लक्ष्णादिवचनात् प्रभूतजिह्वता ।
(25) सर्वलोकधातुसत्त्वसद्धर्मविज्ञपनाद् ब्रह्मस्वरता ।
(26) सम्भिन्नप्रलापविरत्या सिंहहनुता ।
(27) सर्वजनसम्मानादिना शुक्लदन्तता ।
(28) विशुद्धाजीवत्वात् समदन्तता ।
(29) सत्यवचनसमुदाचाराद् अविरलदन्तता ।
(30) पिशुनवचनानभ्यासात् समचत्वारिंशद्दन्तता ।
(31) सर्वसत्त्वैकपुत्रदर्शनाद् अभिनीलनेत्रता ।
(32) प्रतिघातादिविवेकदर्शनाद् गोपक्ष्मनेत्रता ।
सिद्धकरणात् लक्षणं सिद्धं भवतीत्यन्तरश्लोकेनाह -
यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः ।
तस्य तस्य प्रयूर्यायं समुदागमलक्षणः

8.19

इति । येषां लक्षणानां ये प्रसाधकाः, तान् प्रपूर्य तानि द्वात्रिंशल्लक्षणानि प्रादुर्भवन्ति ।
कानि तेषां कारणानीति चेत्? द्वाभ्यामन्तरश्लोकाभ्यामाह -
गुरूणामनुयानादिर्दृढता संवरं प्रति ।
सङ्ग्रहासेवनं दानं प्रणीतस्य च वस्तुनः

8.20

वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च ।
इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः

8.21

इति । इमे द्वे कारिके उपर्येव लक्षणव्याख्यानावसरे स्फुटिते, अतो न पुनः विस्तीर्येत इति ।
लक्षणान्येवं व्याख्याय द्वादशभिः अन्तरश्लोकैः अशीत्यनुव्यञ्जनान्याह -
ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अंगुलयो मुनेः ।
वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः

8.22

गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः ।
विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता

8.23

मृष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता ।
पूर्वव्यञ्जनता चारूपृथुमण्डलगात्रता

8.24

समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता ।
अदीनोत्सदगात्रत्वे सुसंहतनगात्रता

8.25

सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता ।
वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता

8.26

दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता ।
समाचारः शुचिः कालतिलकापगता तनुः

8.27

करौ तूलमृदू स्निग्धगम्भीरायतलेखता ।
नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता

8.28

मृद्वी तन्वी च रक्ता च जिह्वा जीमूतघोषता ।
चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः

8.29

अनुपूर्वीं गतास्तुङ्गा नासिका परमं शुचिः ।
विशाले नयने पक्ष्मचितं पद्मदलाक्षिता

8.30

आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ ।
पीनायतौ समौ कर्णावुपघातविवर्जितौ

8.31

ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता ।
भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमूर्तयः

8.32

केशा अपरुषाः पुंसां सौरभ्यादपहारिणः ।
श्रीवत्सः स्वस्तिकञ्चेति बुद्धानुव्यञ्जनं मतम्

8.33

इति । (1) सर्वसंस्कारवीतरागत्वेन ताम्रनखता ।
(2) सर्वसत्त्वहिताध्याशयत्वेन स्निग्धनखता ।
(3) श्रेष्ठवंशप्रभवत्वेन तुङ्गनखता ।
(4) वृत्तानवद्यत्वेन वृत्ताङ्गुलिता ।
(5) समुपचितकुशलमूलत्वेन चिताङ्गुलिता ।
(6) सम्यगनूपूर्वप्रवृतत्वेन अनुपूर्वाङ्गुलिता ।
(7) सुनिगूढकायादिकर्मान्ताजीवत्वेन गूढशिरता ।
(8) क्लेशग्रन्थिभेदकत्वेन निर्ग्रन्थिशिरता ।
(9) सुनिगूढधर्ममतित्वेन गूढगुल्फता ।
(10) सर्वदुर्गस्थानजनोत्तारकत्वेन अविषमपादता ।
(11) नराभिभवनकुशलतया सिंहविक्रान्तगामिता ।
(12) नागाभिभवनकुशलतया नागविक्रान्तगामिता ।
(13) वैहायसङ्गमकुशलतया हंसविक्रान्तगामिता ।
(14) पुरुषवृषभकुशलतया वृषभविक्रान्तगामिता ।
(15) प्रदक्षिणमार्गानुयाततया प्रदक्षिणगामिता ।
(16) प्रासादिककुशलतया चारुगामिता ।
(17) नित्यमवक्रचित्ततया अवक्रगामिता ।
(18) विशुद्धगुणाख्यापकतया वृत्तगात्रता ।
(19) प्रमृष्टपापधर्मतया मृष्टगात्रता ।
(20) विनेयानुरूपधर्मदेशकतया अनुपूर्वगात्रता ।
(21) कायादिशुचिसमुदाचारत्वात् शुचिगात्रता ।
(22) करुणाचित्तत्वात् मृदुगात्रता ।
(23) विशुद्धचित्तत्वात् विशुद्धगात्रता ।
(24) परिपूर्णधर्मविनयत्वात् परिपूर्णव्यञ्जनता ।
(25) पृथुचारुगुणाख्यानात् पृथुचारुमण्डलगात्रता ।
(26) सर्वत्र समचित्तत्वात् समक्रमता ।
(27) सुविशुद्धधर्मदेशनाद् विशुद्धनेत्रता ।
(28) सुगमधर्मदेशनात् सुकुमारगात्रता ।
(29) नित्यमदीनचित्तत्वाद् अदीनगात्रता ।
(30) समुद्गतकुशलत्वाद् उत्सदगात्रता ।
(31) क्षीणपुनर्भवत्वेन सुसंहतगात्रता ।
(32) सुविभक्तप्रतीत्यसमुत्पाददेशकत्वेन सुविभक्ताङ्गप्रत्यङ्गता ।
(33) सुविशुद्धपदार्थदर्शनाद् वितिमिरशुद्धालोकता ।
(34) वृत्तसम्पन्नशिष्यसंवर्तनीयत्वेन वृत्तकुक्षिता ।
(35) प्रमृष्टसंसारदोषत्वेन मृष्टकुक्षिता ।
(36) भग्नमानशृङ्गत्वेन अभग्नकुक्षिता ।
(37) धर्मक्षयविनिवर्तकत्वेन अक्षामकुक्षिता ।
(38) प्रतिविद्धधर्मगम्भीरत्वेन गम्भीरनाभिता ।
(39) प्रदक्षिणग्राहिशिष्यसंवर्तनीयत्वेन प्रदक्षिणावर्तनाभिता ।
(40) समन्तप्रासादिकपरिवारसंवर्तनीयत्वेन समन्तप्रासादिकता ।
(41) शुचिचित्तत्वेन शुचिसमुदाचारता ।
(42) व्यपगताकालधर्मविनयत्वेन व्यपगततिलकालकगात्रता ।
(43) कायादिलाघवप्रापकधर्मदेशकत्वेन तूलसदृशसुकुमारपाणिता ।
(44) प्रतिलब्धस्निग्धमहाश्रमणत्वेन स्निग्धपाणिलेखता ।
(45) गम्भीरधर्मस्थानत्वेन गम्भीरपाणिलेखता ।
(46) सम्यगायतिपरिशुद्धधर्मदेशकत्वेन आयतपाणिलेखता ।
(47) प्रचुरतरशिक्षादेशकत्वेन नात्यायतवचनता ।
(48) प्रतिबिम्बवत् विदितसर्वलोकत्वेन बिम्बप्रतिबिम्बोपमौष्ठता ।
(49) मृदुवचनविनयत्वेनमृदुजिह्वता ।
(50) प्रभूतगुणोपपन्नत्वेन तनुजिह्वता ।
(51) रक्तबालजनदुरवगाहधर्मविनयत्वेन रक्तजिह्वता ।
(52) सर्वत्रासापगतत्वेन मेघगर्जितघोषता ।
(53) मधुराद्यालापत्वेन मधुरचारुमञ्जुस्वरता ।
(54) निवृत्तभवसंयोजनत्वेन वृत्तदंष्ट्रता ।
(55) दुर्दान्तजनदमकत्वेन तीक्ष्णदंष्ट्रता ।
(56) परमशुक्लधर्मविनयत्वेन शुक्लदंष्ट्रता ।
(57) समभूतिप्रतिष्ठितत्वेन समदंष्ट्रता ।
(58) सम्यगनुपूर्वाभिसमयप्रकाशकत्वेन अनुपूर्वदंष्ट्रता ।
(59) प्रज्ञाप्रकर्षस्थापकत्वेन तुङ्गनासता ।
(60) शुचिजनसम्पन्नत्वेन शुचिनासता ।
(61) परमोदारधर्मत्वेनविशालनयनता ।
(62) समुपचितसत्त्वराशित्वेन चित्तपक्ष्मता ।
(63) सर्वयुवतिजनाभिनन्दित्वेन सितासितकमलदलनयनता ।
(64) नित्यमायतिदर्शित्वेन आयतभ्रूकता ।
(65) श्लक्ष्णधर्मविनयकुशलत्वेन श्लक्ष्णभ्रकता ।
(66) कुशलस्निग्धसन्तानत्वेन सुस्निग्धभ्रकता ।
(67) समन्तदोषदर्शित्वेन समरोमभ्रूकता ।
(68) परमपीडानिवर्तकत्वेन पीनायतभुजता ।
(69) विजितरागादिसमरत्वेन समकर्णता ।
(70) सर्वसत्त्वानुपहतसन्तानस्वेन अनुपहतकर्णेन्द्रियता ।
(71) सर्वदृष्टिकृतान्यथाविपरिणामत्वेन अपरिम्लानललाटता ।
(72) सर्ववादिप्रमथनत्वेन पृथुललाटता ।
(73) परिपूर्णोत्तमप्रणिधानत्वेन पूर्णोत्तमाङ्गता ।
(74) विषयरतिव्यावर्तकत्वेन भ्रमरसदृशकेशता ।
(75) प्रहीणदर्शनभावनाप्रहातव्यानुशयत्वेन चितकेशता ।
(76) श्लक्ष्णबुद्धिपरिज्ञातशासनत्वेन श्लक्ष्णकेशता ।
(77) रागाद्यसंलुठितचेतनत्वेन असंलुठितकेशता ।
(78) नित्यमपरुषवचनत्वेन अपरुषकेशता ।
(79) बोध्यङ्गकुसुमावकीर्णत्वेन सुरभिकेशता ।
(80) सर्वथा शोभासंवर्तनीयत्वेन श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादतलता चेति ।
4 - नैर्माणिककायः
इत्थं कायत्रयं निर्दिश्यं चतुर्थः नैर्माणिककायः सर्वबालजनसाधारण इति ।
तमाह -
करोति येन चित्राणि हितानि जगतः समम् ।
आभवात्सो ऽनुपच्छिन्नः कायो नैर्माणिको मुने

8.34

इति । येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ कायः प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थो ऽवसातव्यः ।
बुद्धकारित्राणि
इत्येवं स्वाभाविककायस्वरूपभावनाप्रभावितबुद्धादिविषयत्वे ज्ञानाद्यपेक्ष्य परिकल्पितकायत्रयं निर्दिश्यं संवृत्या ज्ञानमेव साम्भोगिककायादिप्रतिभासोत्पादद्वारेणार्थक्रियाकारीति कर्म विनेयजनप्रतिभासभाक् तदाधिपत्याश्रयेणायातं धर्मकाय एवेति ।
तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते ।
गतीनां शमनं कर्म सङ्ग्रहे च चतुर्विधे

8.35

निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च

8.36

बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये ।
संकेते ऽनुपलम्भे च परिपाके च देहिनाम्

8.37

बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य निवारणे ।
बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति

8.38

अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने

8.39

विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति

8.40

व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम्

मूल पाठ: Abhisamayālaṃkāravṛttiḥ sphuṭārthā · Edition: Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc