भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकारवृत्तिः स्फुटार्था · अध्याय 7

7.1

इति । त्रिमण्डलविशुद्धिप्रभावितदानादिषट्पारमितासर्वाकारपरिपूरणेन प्रज्ञापारमितान्तर्गतपारमिताचतुष्टयत्वात् सम्यग् दशभूमिनिष्पादकेन स्मृत्युपस्थानादिना सप्तबोध्यङ्गाकारेण आर्याष्टाङ्गमार्गतया च परमार्थतः अस्मरणलक्षणेन त्रिविधबुद्धानुस्मरणेन यथाक्रमं निर्वेधभागीयदर्शनभावनामार्गद्योतकेन तथैव कुशलाकुशलाव्याकृतधर्मानुस्मरणेन पूर्ववद् आर्यावैवर्तिकबोधिसत्त्वसंघस्मरणेन तथैव शीलत्यागदेवतानुस्मरणेन रूपादिसर्वधर्माभावे स्वभावावबुद्धेन च यो ऽधिगमः सानुपूर्वक्रियेष्यत इहेति ।
इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारवृत्तिः ।
एकक्षणाभिसम्बोधाधिकारः सप्तमः
विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेव क्षणेनैकेनाधिगम इत्येकक्षणाभिसम्बोधः । सो ऽपि लक्षणेन चतुर्विध इति ।
1 - अविपाकलक्षणः
अविपाकानास्रवसर्वधर्मैकक्षणलक्षणेन प्रथम एकक्षणाभिसम्बोधः । इत्याह -
अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् ।
एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः

7.2

धर्मधातुस्वभावरूपे -
एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः ।
एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ॥
इतिन्यायान्न केवलं बहुभिरेकस्य संग्रहः, अपि त्वेकक्षणदानादिज्ञानेन आलम्ब्यमानेन अपगतप्रतिनियतवस्तुग्रहणविपर्ययरूपेण दानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण मुनेः बोधिसत्त्वस्यावबोधो हि एकक्षणाभिसम्बोध इति ज्ञातव्यः ।
किमेवं पुनरेकानास्रवज्ञानालम्बने सर्वानास्रवसंग्रह इति चेत्? लौकिकदृष्टान्तेनाह -
अरघट्टं यथैकापि पदिका पुरुषेरिता ।
सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा

7.3

इति । यथैकापि पदिका पुरुषेरिता सकृदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्वपरिकर्मसामर्थ्यात् चलयति तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्याद् एकस्मिन्नेव क्षणे एकमनास्रवमालम्ब्यमानं सर्वं सजातीयमभिमुखीकारयतीति ।
2 - विपाकलक्षणः
एवं प्रथमं निर्दिश्य विपाकधर्मतावस्थानास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीयः । इत्याह -
विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा

7.4

यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमनेन सकलव्यवदानपक्षविपाकधर्मतावस्था सर्वकलङ्कापगमेन शरदिन्दुज्योत्स्नावत् शुक्लस्वभावा जाता तदा एकस्मिन्नेवक्षणे विपाकावस्थाप्राप्तानाम् अनास्रवधर्माणां बोधात् ज्ञानं प्रज्ञापारमिता एकक्षणाभिसम्बोध इति ।
3 - अलक्षणलक्षणः
द्वितीयमेवं निर्दिश्य अलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधस्तृतीयः । इत्याह -
स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया ।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति

7.5

पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणाः सर्वधर्मा इति संक्लेशव्यवदानरूपाणां धर्माणाम् एकेनैव क्षणेनालक्षणत्वं जानातीत्येवमेकक्षणाभिसम्बोधः ।
4 - अद्वयलक्षणः
तृतीयमेवं निर्दिश्य अद्वयलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधश्चतुर्थः । इत्याह -
स्वप्नं तद्दर्शिनञ्चैव द्वययोगेन नेक्षते ।
धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति

मूल पाठ: Abhisamayālaṃkāravṛttiḥ sphuṭārthā · Edition: Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc